SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः । T पार्श्वतो मल्लिनाथस्य चकाशे चामरद्वयम् । धर्मशुक्लाभिध्यानयुग्मं मूर्तमिवाऽमलम् ॥ २३८ ॥ वादित्राणां महाघोषैर्व्यानशे सकला दिशः । अधर्मवर्ती सर्वत्र सर्वतस्तिरयन्निव ।। २३९ ।। वृन्दारकाणां वृन्देभ्यः स्पष्टो जयजयारवः । उत्तस्थे मोहराजस्य प्रवासपटहोपमः || २४० ॥ क्षणमग्रे क्षणं पृष्ठे पौरास्तस्थुः प्रमोदतः । स्वामिनो विरहं सोमप्रौढा इव सर्वतः ।। २४१ ॥ asoorरुरुहरहाi सौधाग्राणि च केचन । सन्मश्चाग्राणि केचिच प्रभोदर्शनकाम्यया ।। २४२ ॥ हस्त्यश्वरथपादात पौरवृन्दपरावृतः । श्रीमत्कुम्भमहीपालचचाल जिनपृष्ठतः ।। २४३ ॥ करिणीपृष्ठविन्यस्तमञ्चिकासनमासिता । प्रभावत्यपि गोत्रस्त्रीसंहृत्या पर्यलङ्कृता ।। २४४ ॥ स्वामिदीक्षा श्रुतेरुत्कैः प्रविव्रजिषुभिः समम् । राजभित्रिशती संख्यैः सहर्षेरग्रतः स्थितैः ॥ २४५ ॥ स्त्रीणामप्यान्तरपरीवाराणां च त्रिभिः शतैः । दिदृक्षुभिः परं पौरैरुत्सवं समुपागतैः ॥ २४६ ॥ पूर्णपार्श्वो जगन्नाथो मिथिला मध्यवर्त्मना । वधूपाणिमिवादातुं दीक्षामुत्को वरो यथा ॥ २४७ ॥ शिविकावाहिनस्तत्र दिव्याभरणभासुराः । अदधुर्भूगतानेकाश्विनीनन्दनवैभवम् ॥ २४८ ॥ तदा श्रीमल्लिनाथस्य तस्मिन्निष्क्रमणोत्सवे । गतक्षूणो दिदृक्षूणां क्षोभः स्त्रीणां क्षणादभूत् || २४९॥ अर्धमोतस्फुरत्काञ्च्या प्रस्खलन्त्यः पदे पदे । तुङ्गजालकमध्यासुः काश्चित् स्वामिदिदृक्षया ||२५०॥ काश्चिद् देशान्तरायातप्रियवार्ता अपास्य ताः । २० १.५३
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy