SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ मल्लिनाथमहाकाव्येरोहिणी श्रवणं चैव धनिष्ठा चोत्तरात्रयम् ॥६४९॥ मृगशीर्ष तथा मूलमनुराधा नराधिप । पश्चदशापि ऋक्षाणि प्रतिष्ठायां शुभान्यहो । ॥६५०॥ शन्यर्कक्षितिजाः षष्ठतृतीयस्थाः शुभावहाः। . द्वित्रिस्थश्चन्द्रमाः श्रेष्ठः सर्वकार्यप्रसाधका ॥६५१॥ एकद्वित्रिचतुष्पञ्चदशमस्थो बुधो मतः । एकद्वित्रिचतुष्पश्चनवसप्तदशस्थितः ॥६५२॥ गुरुः शुभतरः प्रोक्त एकपञ्चचतुःस्थितः । नवचतुर्दशस्थश्च शुक्रः प्रीतिकरः सताम् ॥६५३॥ केतुविधुन्तुदो नूनमेकादशगतौ शुभौ । प्रतिष्ठायां ग्रहा एते लग्नस्यातिशयप्रदाः ॥६५४॥ श्रुत्वेदमुचितं दत्त्वा तेभ्यः स्वं क्षितिवासवः । लग्नेऽस्मिन्नेव राज्ये श्रीबलभद्रं न्यवीविशत् ॥६५५॥ अथाधिरूढशिविको नरेन्द्रः श्रीमहाबलः । मुनिपादरजःपूतं महोद्यानमुपेयिवान् ॥६५६॥ खपदन्यस्तसत्पुत्रोऽथाञ्चलो निश्चलाशयः । गुणैः स्थैर्यादिकैर्वर्धरणो धरिणीयितः ॥६५७॥ सप्तक्षेत्र्यां धनं न्यस्य पूरणोऽप्यनृणो नृणाम् । वसुभिः पूरयन् विश्वं वसुर्वसुरिव श्रिया ॥६५८॥ वैश्रमणः श्रमणत्वे बद्धकक्षो महामतिः । अभिचन्द्रस्तु निस्तन्द्रो गुरुशुश्रूषणाशया ॥६५९॥ सर्वेऽप्यमी यथा वित्तं ददाना भावनोद्धताः। शिविकास्था गुरोः पार्थे व्रतमाप्तुमुपागमन् ॥६६०॥ (चतुर्भिः कलापकम् ) अथाऽवामान् वामपार्चे कृत्वैतान विधिपूर्वकम् । धर्मध्वजादि तत् सर्वमदादथ मुनीश्वरः ॥६६१॥
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy