SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ [स. २.८२-९३ ] वासुपूज्यचरितम् कदाचिदपि नायाचि लभ्यमिभ्यजनैर्धनम् ॥ ८२ किंचित्कैश्चित्रपावद्भिरधमणैर्मम स्वयम् । दत्तं वित्तं कुटुम्बस्य बभूव कशिपुश्रिये ॥ ८३ ॥ इत्यहं यद्भविष्यः सन्प्रियामपि विपद्गताम् । चक्रे श्लोकस्य तस्यार्थसामर्थ्येन प्रमोदिनीम् ॥ ८४ ॥ साम्प्रतं मत्मियायास्तु सोदरः परिणेष्यते । सागदद्गद्गदोत्त्या मां तदुत्सवगमोत्सुका ॥ ८५ ॥ न भूषणानि भूरीणि चीवराणि वराणि न । नाध्वयोग्यानि युग्यानि दानीयानि धनानि च ॥ ८६ ।। स्फारशृङ्गारसारासु दानीयाद्भुतभूतिषु । रंस्ये प्रधानयानासु सोदरासु किमीदृशी ॥ ८७॥ आत्मानमपि विक्रीयाधिकं किंचित्ततो ऽपि वा । मानं मे पाहि मानो हि स्वात्मनो ऽप्यधिकः सताम् ॥८८॥ न मानः पूर्यते चेत्तन्मरणं शरणं मम । मन्यन्ते मानिनो मानमात्मनोऽपि हि दुस्त्यजम् ॥ ८९ ।। इत्याग्रहमहं तस्या हन्त श्याममुखस्तदा । चिरं विचार्य चित्तेन किंकार्यत्वजडो ऽभवम् ॥ ९० ॥ वस्तु पश्यामि नो गेहे विना देहेन किंचन । मूल्यं कर्मकृतामेव प्राप्यं तद्विक्रये पुनः ॥ ९१ ॥ तत्कि कुर्वे क गच्छामीत्युद्यदुःखहृदा तदा । स श्लोकः सस्मरे दुःखस्मरणीयतया मया ॥ ९२ ॥ ततः कदाग्रहास्तमहिलामोहिताशयः । कृत्यतत्त्वं स्वसत्त्वं च तृणयन्धनतृष्णया ॥ ९३ ॥ तं मातृवदविक्रेयमपि श्लोकमिहाप्यहम् ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy