SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ४६२ श्रीवर्धमानसूरिविरचितं [स.४.१३०१ - १३१२] निशि नाभेयमभ्यर्च्य मारेभे प्रेक्षणं पुरः ॥ १३०१ ॥ ततादिक चतुर्वायसम हस्तकहेलया । चतुर्गतिक संसारत्रासावेशं सुरा व्यधुः ।। १३०२ ॥ ते च पञ्चमुखेनेव पञ्चशब्देन चञ्चता । वाद्येन चक्रिरे पञ्चमहापापेभपञ्चताम् ॥। १३०३ ॥ महामृदङ्गधोंकारः स कश्चन तदाभवत् । श्रोतुर्जनस्य येनासशिथिलः कर्मसंघयः ।। १३०४ ॥ युगादिजिनवक्त्रेन्दुभितस्य निरन्तरः । रवः पुण्यार्णवस्येव रराज मुरजध्वनिः ॥। १३०५ ॥ अप्यादिनाथ मुखतः कृपन्ती घुसदां दृशः । वधूव भाग्यभूरेव नर्तकी भावनर्तनैः । १३०६ ॥ संक्षिपन्ती चतस्रो ऽपि संसारस्य गतीरिव | उद्धतांहिकरद्वन्द्वा वर्तनैर्नर्तकी बभौ ।। १३०७ ॥ सप्तरन्ध्रस्वरसुधाधौता योगतिदुर्मलः । अवादयत्तदा वंशं सुखं सुरवांशिकः ।। १३०८ ॥ बद्धतुम्बाभवत्तत्र वीणा मधुरवादिनी । उत्तारायितुकामेव श्रोतृन्संस्मृतिकाहिनीम् ।। १३०९ ॥ सुधाम्बुधिमिवोद्वान्तं गीतमुद्भाव्य भाविनाम् । हियेव विलयं प्राप संसारक्षारसागरः ॥ १३१० ॥ प्रातर्दीपसहस्राभकरव्यतिकरः स्वयम् । धर्मेशस्याभवत्तत्रारात्रिकं रात्रिकण्टकः ।। १३११ ॥ इति प्रेक्षणमापूर्य प्रणम्यादिजिनं मुदा । वत्रे कृतविहारं श्रीवासुपूज्यं हरिः सुरैः ।। १३१२ ॥ द्वासप्ततिसहस्राणि श्रमणाः स्वामिनो ऽभवन् ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy