________________
४४२ श्रीवर्धमानसूरिविरचितं स.४.१०६७-१०७८] mmmmmmmmmmmmin विधाप्य पारणं तूर्णमेहि यामः शनैर्वयम् ॥ १०६७ ॥ क्रुधा स्वेच्छागतिच्छेदादाज्ञालोपाच विभ्यती । ततः सिद्धमतिः साधुं पारणायालये ऽनयत् ॥ १०६०॥ कटुतुम्बीफलं साथ हयेभ्यः परिपाचितम् । जनेन वार्यमाणापि तस्मै खाद्ययुतं ददौ ॥ १०६९ ॥ तदाहृत्य मुनिर्दह्यमानकुक्षिः श्रिताश्रयः । आहारादिपरीहारहयः सद्यो दिवं ययौ ॥ १०७० ॥ तत्परिज्ञाय राज्ञाथ सर्वमादाय सा रुषा । शरावमालामालम्ब्य गले निर्गमिता पुरात् ॥ १०७१ ॥ अथोडम्बरकुष्ठेन गलिता सप्तमे ऽहनि । विशीर्णकर्णनासोष्ठा मृत्वागाषष्ठदुर्गतौ ॥ १०७२ ॥ उद्वत्ता दुर्गतेः सा तु नरकेष्वपि सप्तसु । असंख्यदुःखदुष्टात्मतिर्यग्जन्मान्तरास्वगात् ॥१०७३ ॥ सर्पिण्युष्ट्री शुनी क्रोष्ट्री वराही गृहगोधिका । मूषी जलौका काक्योतुस्त्री खरी साथ गौरभूत् ॥१०७४॥ सा तु गौर्जीवितस्यान्ते पीडया पतिता पथि । शुश्राव मुनिभिर्दत्तां परमेष्ठिनमस्क्रियाम् ॥ १०७५ ॥ तत्प्रभावात्समाधिस्था मृत्वास्य श्रेष्ठिनः सुता । जाता त्वं पापशेषेण महादुर्गन्धदूषिता ॥ १०७६ ॥
जातजातिस्मृतिस्तास्ता नरकादिव्यथास्ततः । साक्षादनुभवन्तीवाखर्वसर्वाङ्गवेपथुः ॥ १०७७ ।। शुष्कोष्ठी दीनवदना लोलकातरलोचना । मूर्धबद्धाञ्जलिः साश्रुः सा दुर्गन्धाभ्यधाद्गुरुम् ॥१०७८॥
॥ युग्मम् ॥