SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ [स.४८२१-८३१] वासुपूज्यचरितम् ४२१ आहुः शिक्षाव्रतमिदं तृतीयं पौषधाभिधम् ।। ८२१ ॥ तत्तु शुद्धोक्तचारित्रित्रतवत्परिपाल्यते । अहोरात्रमथाशेषां रात्रिं यावज्जितेन्द्रियैः ॥। ८२२ ।। भवोरगगदच्छेदे पौषवत्पौषधत्रतम् । आपत्तापभिदे मित्रानन्दमन्त्रिपतरिव ।। ८२३ ॥ तद्यथा । धर्मनिर्मलमत्यर्थमर्थविद्योति विद्यते । पुरं पुष्पपुरं पुष्पचापचापलपेशलम् ।। ८२४ ॥ तत्र युद्धसुधासत्रममित्रवसुधाभृताम् । बभूव भूविभुर्भानुर्जितभानुः खतेजसा ।। ८२५ ॥ मन्त्री तस्य धरित्रीन्दोर्मित्रानन्द इति श्रुतः । अजायत धियां पात्रं छात्रीकृतबृहस्पतिः ।। ८२६ ॥ मध्येसदः कदाप्युच्चैर्नरेन्द्रसचिवेन्द्रयोः । व्यवसायस्य पुण्यस्य प्रतिष्ठाने ऽभवत्कलिः ॥ ८२७ ॥ कुधाथ वसुधानाथः प्रोवाच सचिवं प्रति । व्यवसायः प्रमाणं न प्रमाणं पुण्यमेव चेत् ॥ ८२८ ॥ ततः स्वपुण्यमाहात्म्यात्त्वं पुण्यबलगर्वितः । गृहाण मम राज्यर्द्धिमित्थं संवर्धिमत्सरः ॥। ८२९ ।। ॥ युग्मम् ॥ यश्च कश्चित्पुरीमध्याद्भवन्तमनुयास्यति । तत्कण्ठातृषितो ऽसौ मत्खगः पास्यति शोणितम् ॥ ८३० ॥ गच्छ तुच्छमते तूर्ण पूर्ण कुरु निजं वचः । गृहे न हन्त गन्तव्यमित एवान्यतो व्रज ।। ८३१ ॥ इति क्षितिपतेर(ज्ञां विज्ञाय सचिवाग्रणीः ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy