SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ २४ श्रीवर्धमानसूरिविरचितं [स.१.२६९-२८० ] ते ऽथ पातकपूरेण दूरिताः पूरितायुषः । यथा यथा समुत्पन्नाः शृणु भूप तथा तथा ।। २६९ ॥ फलं मे पशुरूपत्वमिति हासोक्तिकर्मणः । स रामः सामजो जज्ञे तैः पुण्यैर्ज्ञानवानयम् ॥ २७० ॥ मुनिकण्टकाकर्षाद्राज्यं निष्कण्टकं भवेत् । इत्युक्त्या प्राप संग्रामजीवो ऽहं तादृशं फलम् ॥। २७१ ।। प्राम्मैत्रीरागतो नागवरो ऽसौ मामुपागतः । बोधितोऽहमनेनेदं प्राकर्मफलमासदम् ।। २७२ | यस्त्वासीद्वामनः किंचिद्गोत्रगर्वादवामनः । भूपस्वरूपमेतस्य शृणु शेषं विशेषतः ।। २७३ ।। अस्त्यवन्ती समस्तार्था नवन्ती नामतः पुरी । वालक्ष्म्या क्रीडतो sपीडं यस्यां जनमुखाम्बुजे ।। २७४ ॥ तस्यां शस्यांसशैलाग्रझरत्पौरुष निर्झरः । विरोधिरोधकृद्वाहुः सुबाहुरिति भूपतिः ।। २७५ ॥ तस्य धात्रीपते छत्रधरः किन्नरसंज्ञकः । गृहिणी हरिणी तस्य हरिणीनयनाजनि ।। २७६ ।। सुकृती वामनस्यात्मा गर्भे ऽस्याः समवातरत् । गर्भानुभावतो ऽपश्यत्तदा सा स्वप्रमद्भुतम् ॥ २७७ ॥ तत्क्षणं हरिणी त्यक्तनिद्रा चन्द्रमुखी सुखम् । पल्यङ्कादुत्थिता पत्युः सुस्थितेति व्यजिज्ञपत् ॥ २७८ ॥ ममोदरे रुचां राशेरभिषेकं वितन्वन्ती । मेरुशृङ्गे महालक्ष्मीः स्वमे ऽद्य ददृशे मया ।। २७९ ॥ अथावदददो नारी किन्नरः शृणु सुन्दरि । सर्वोत्तमसुतोत्पत्तिसूचकः स्वम एष ते ॥ २८० ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy