SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ श्रीवर्धमाननुरिविरचितं [स.४.७६२-७७३] द्वितीयं तदिदं शिक्षाव्रतं देशावकाशिकम् ॥ ७६२ ॥ देशावकाशिकं यावत्कुरुते श्रद्धया सुधीः । तदन्यत्रात्मनां तेनाभयं दत्तं भवेत्तदा ॥ ७६३ ॥ प्रभावादस्य नश्यन्ति विघ्नाः शुद्धात्मनामिह । सुमित्रस्येव जायन्ते परत्र च शुभश्रियः ॥ ७६४ ॥ मुख्या पुरीततावस्ति भुवस्तिलकवत्पुरी । चन्द्रिकेति चतुर्वर्गश्रीनिरर्गलनागरा ।। ७६५ ।। नासीरवीरश्वासोर्मिसमुड्डीनारिमण्डलः । तारापीड इति क्ष्मापस्तामपालयदुत्सवैः । ७६६ ।। तन्मन्त्री कीर्तिकुसुमं सुमित्राख्यः समन्ततः । विश्वसौरभ्यद्भेजे जिनभक्तिलताद्रुमः । ७६७ ॥ शास्त्रमङ्गलदीपोद्यद्धाम्नि हृन्नामधामनि । यस्यालीनौ भुजस्तम्भतोरणे मतिविक्रमौ ॥ ७६८ ॥ नृपतिर्नवतारुण्यः पुण्यकर्मपराङ्मुखः । उवाच सचिवाधीशं कदाचिद्वाधकाञ्चितम् ॥ ७६९ ॥ देवार्चास्वकरोद्दामदानव्याख्याश्रवादिभिः । धर्मकृत्यैर्व पुर्मन्त्रिकि सुधा बाध्यते ऽधुना ॥ ७७० ।। क एभिर्विफलैर्धर्मकर्मक्लेशैर्भवादृशः । जराक्रान्तमविश्रान्तमिति देहं दहत्यहो || ७७१ ॥ इत्युक्तः स्मितवक्त्रो ऽयं मन्त्री धात्रीधवं जगौ । किं नृदेव त्वमप्येवमनौचित्येन भाषसे ।। ७७२ ॥ इच्छामि धर्मकृत्येषु त्वां कारयितुमुद्यमम् । -मामपि त्वं तु किं नाथ निषेधयसि तेषु हा ॥ ७७३ ॥ धर्मः किं विफलः स स्याद्यत्प्रसादेन धीधनैः । -४१६
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy