________________
[स.४.४९३-५०३] वासुपूज्यचरितम्
धनं विनार्थिनामास्यं दर्शनीयं प्रगे कथम् । नक्तं सुप्ते जने युक्ता देशान्तरगतिस्ततः ॥ ४९३ ॥ इति शृङ्गारसुन्दा सममालोच्य मुप्तवान् । निशीथे ऽभ्युत्थितश्चायं यावदेशान्तरोन्मुखः ॥ ४९४ ।। तावत्तावद्भिरेव श्रीपूरैरापूर्णमालयम् । आलोक्य विस्मयस्मेरचित्तश्चित्तत्रियां जगौ ॥ ४९५ ।।
_ -- त्रिभिर्विशेषकम् ॥ दशमे ऽहनि देवेन कृष्यमाणैव यास्यति । नेदानीं दीयमानापि श्रीरियं याति मद्गृहात् ॥ ४९६ ॥ न स्याददानं दानं वा स्थैर्यास्थैर्यकृते श्रियः । मुधा कृपणतां मूढा रूढामात्मनि तन्वते ॥ ४९७ ॥ न याति दीयमानापि श्रीश्वेदीयत एव तत् । तिष्ठत्यदीयमानापि नो चेद्दीयत एव तत् ॥ ४९८ ॥ इति विस्मितयोर्वाारसोमिप्लुतयोस्तयोः।। आलिलिङ्ग दिवं पिङ्गः क्षपावल्लिदवो रविः ॥ ४९९ ॥ तथैवाथ श्रियं दत्त्वा कृत्वा कर्म दिनोचितम् । सुष्वाप पुण्यपूर्णो ऽयं प्रतिज्ञातपरिग्रहः ॥ ५०० ॥ इत्यमेष नवाहानि हानिहीनां श्रियं ददत् । कल्पद्रुमाधिदेवीनामपि श्लाध्यत्वमागतः ॥ ५०१ ॥ प्राच्यपुण्यपयःपड़ो मुक्तिमार्गस्य दूषकः। शोषमेष्यति में दिष्टया श्रीफूरः श्वस्तने दिने ॥ ५०२ ॥ इति प्रीतमना नक्तं सुप्तः स्वप्ने श्रिया रयात् । आनन्दसुन्दरदशा स बभाषे शुभाशयः ॥५०३॥ युग्मम् ॥ तबलादुर्बलं दैवं कुर्वद्भिर्गर्वगर्मितैः।