SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ श्रीवनानभूरिमिपित [स.४. ४३५-४४६) विवेकः स्वीकृतस्तत्र गुर्वादेशो ऽस्ति कारणम् ॥ ४३५॥ ततः प्रभृति सद्धर्मशीलप्रेमगुणैर्दृढम् । त्रिधा स्यूते तयोश्चित्ते भेजतुभृशमेकताम् ॥ ४३६ ॥ अनन्यरूपयोधर्मध्यानाधीनधियोस्तयोः । आधिमुक्तहृदोः कामं कायकान्तिरवर्धत ।। ४३७ ॥ __कदाचिदुत्सवाकृष्टा नन्दा पितृगृहे ययौ । मुप्तः कुटिमकोट्यग्रे नागिलश्चन्द्रदत्तदृक् ॥ ४३८ ॥ व्योम्न विद्याधरी कापि यान्ती प्रियवियोगिनी । तद्रूपमोहतः कामरोहतः प्राप्य तं जगौ ॥ ४३९ ॥ कामानलशिखातप्ता प्राप्तास्मि शरणं तव । स्वामिल्लाँवण्यपाथोधे मां मजय भुजोमिषु ॥ ४४० ॥ प्रियास्मि हंसराजस्य विद्याधरशिरोमणेः । ततश्चित्तं त्वयाकर्षि गीतेनेव कवित्वतः ॥ ४४१ ।। चण्डस्य खेचरपतेः सुता लीलावतीत्यहम् । त्वयाता भविष्यामि सत्यं लीलावती पुनः ॥ ४४२ ॥ नाङ्गीकरोषि चेत्तन्मां मृत्युरङ्गीकरिष्यति । तद्भविष्यसि धर्मज्ञ किं न स्त्रीघातपातकी ॥ ४३ ॥ रहस्यं वेद्मि विद्यानां कामितुश्च पितुश्च तत् । तौ जित्वा तेन तत्त्वाम्यं तव दास्यामि मां भज ॥४४४॥ मान्यथा मद्वचः कार्षीरित्युक्त्वासौ कुरङ्गादृक् । कम्पमाना क्रमौ तस्य मूर्ना स्पष्टुमधावत ॥ ४४५ ॥ मा भूत्परस्त्रीस्पर्शो ऽपि ममेत्याशु स नागिलः । ततश्चकर्ष चरणौ दह्यमानाविवाग्निना ॥ ४४६ ॥ क्रुद्धाथ व्योम्नि ततायोगोलं लोलं विकृत्य सा ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy