SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ - अथ चतुर्थः सर्गः अथ प्रतस्थे पृथिवीं पावयन्स्वपदैः प्रभुः । अन्वीयमानो मुनिभिर्विनयः सद्गुणैरिव ॥ १ ॥ जघन्यतोऽप्यभूत्कोटिः प्रभोः पार्श्वे सुपर्वणाम् । ऋतुवातेन्द्रियार्थाश्चानुकूलाः सर्वतो ऽन्वहम् ॥ २ ॥ द्रुमाः कल्पद्रुमस्यास्य गच्छतो नतशीर्षकाः । अजायन्त जगद्भर्तुः शकुनाच प्रदक्षिणाः ॥ ३ ॥ युग्मम् ॥ स्वदुर्मुखत्वं जानन्तो लज्जिता इव कण्टकाः । अधोमुखत्वमभजन्पथि प्रचलतः प्रभोः ॥ ४ ॥ यशोगान तत्रातिवृष्टयवृष्टिरुजः कचित् । मारिवैरेतिदुर्भिक्षस्वान्यचक्रभयान्यपि ॥ ५ ॥ अवृद्धनखश्मश्रुकेशो देशेषु संचरन् । स्याद्वादी द्वारिकापुर्याः पर्यन्तोर्वी क्रमादगात् ॥ ६ ॥ अस्यां सुरौघैः समवसरणे विहिते क्षणात् । तत्र प्राग्वत्प्रविश्यालंचक्रे सिंहासनं जिनः ॥ ७ ॥ राजमान्या द्विपृष्टस्य तन्नरा द्वारिकापतेः । तदा समवसृत्याद्यं मनः स्वाद्यं न्यवेदयन् ॥ ८ ॥ साध द्वादश रूप्यस्य कोटी स्तेभ्यो ददौ मुदा । प्रभोः समवसृत्यां च नृपः सविजयो ययौ ॥ ९ ॥ प्रभुं प्रदक्षिणीकृत्य कृतीन्दुः प्रणिपत्य च । द्विपृष्टो बन्धुना सार्धमा सामासानुवासवम् ॥ १० ॥ अथ विश्वनाथ विश्वभाषानुगामिनीम् । विश्वलोकप्रबोधार्थ विदधे धर्मदेशनाम् ॥ ११ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy