SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ [स.३.५५७-५६८] वासुपूज्यचरितम् शरावसंपुटे क्षिप्त्वा मुमोचं लवणानलौ ॥ ५५७ ॥ दूर्वादाधि शुभं स्थालं दधौ कापि प्रभूत्सवे । संक्षिप्तागततीलाब्जफेनभृन्मानसोपमम् ॥ ५५८ ॥ मन्थानं मुसलं काचित्पाणौ कृत्वा पुरः स्थिता । कर्माणि मथितुं भक्तुं प्रभोः शक्तिरिवाङ्गिनी ॥५६९ ॥ चक्रे ऽथ चान्दनाञ्चश्रूः श्रीविभोस्तिलकाना । अङ्गेषु सोत्तमाङ्गेषु निधिश्रीदर्पण निव ॥ ५६० ॥ अर्घ देह्यर्घदे ऽाय वरायेति गुरुस्वरैः। .. धवले गीयमाने सा प्रभोरघु ददाविति ॥ ५६१ ॥ जगतां मङ्गलस्यापि दूर्वादध्यक्षतैर्विभोः। चक्रे सा मङ्गलं यस्माल्लोकस्याचरणं महत् ॥ ५६२ ॥ अथोत्तरीयकौसुम्भाशुकच्छन्नमुखेन सा । त्रिः पस्पर्श विभोर्भाल मथा च मुंसलेन च ॥ ५६३ ॥ त्रटनटिति तन्वानं लवणानलपूरितम् । शरावसंपुटं चाग्रे विभोरुत्तार्य सामुचत् ॥ ५६४ ॥ सपादुकेन वामेन तद्वभञ्जांघ्रिणा प्रभुः। जगत्माणस्य का लज्जा भवेद्धद्धदभञ्जने ॥ ५६५ ॥ कौसुम्भवसनं कण्ठे क्षिप्त्वा मदनरेखया। आकृष्य प्रापितो मातृगृहं स्वामी तया रयात् ॥ ५६६ ।। सितवस्त्रावृताङ्गो ऽत्र मातृणामग्रतः प्रभुः। निषसादासने हैमे हंसः स्वर्णाम्बुजे यथा ॥ ५६७ ॥ कन्दर्पराझीकरणमुद्राभमदनान्वितम् ।। वरवध्वो बन्धेन्द्रः कङ्कणं दक्षिणे करे ॥ ५६८ ॥ उत्सृतस्वच्छवस्त्रोर्मिस्फुटीभूतमुखाब्जयोः ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy