SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २६१ [स.३. ७०-८१] वासुपूज्यचरितम् गुणिन्यो ऽपि वयं दोषाकरेच्छा इति-लज्जया। . . संन्यमीलन्कुमुद्वत्यो ऽवतीर्णे ज्ञानिनि प्रभौ ॥ ७० ॥ नाथे ऽवतीर्णे निर्वाणद्वारोद्धाटनसूचकाः। . . कपाटा उद्धटन्ते स्म धर्मस्थानेषु सर्वतः ॥ ७१॥ त्रैलोक्यैकपदीपे ऽस्मिन्नवतीर्णे सति प्रभौ। लज्जयेव भवन्ति स्म विच्छाया गृहदीपकाः ॥ ७२ ॥ भविष्यति प्रभोधर्मव्याख्या पीयूषवर्षणी। क्षीणः प्रागेव चक्राणां विप्रयोगहुताशनः ॥ ७३ ॥ भूपः श्रीवसुपूज्यो ऽथ कृतपाभातिकक्रियः । नभोभागं यथा भानुः सभामागं व्यभूषयत् ॥ ७४॥ जाननपि जिनेन्द्रस्यावतारं वासवोत्सवैः । परं मुहुः कृता वार्ता प्रियाप्रीत्यै भवेदिति ॥ ७५ ॥ तूणेमानीय सन्मान्य स्थापितैः स्वमकोविदैः।.. व्याख्यापयनृपः स्पष्टदृष्टान्स्वाश्चतुर्दश ॥ ७६ ॥ युग्मम् ॥ अथैते प्रथितान्स्वमग्रन्थानालोक्य धीधनाः। विचार्य चिरमन्योन्यमुच्चै रोमाञ्चिता जगुः ॥ ७७ ॥ स्वामिन्नेकैकमप्येषु स्वमेषु स्वममीक्षले । या कापि स्त्री प्रसूते सा तनयं सनयं नृपम् ॥ ७८ ।। एतेषु वीसते क्ष्माप या तु स्वमचतुष्टयम् । . . सीरिणं वैरिणां शल्यमतुल्यं जनयत्यसौ ॥ ७९ ॥ या पुनः पश्यति स्वमान्सौतेषु नृशेखर । भरतार्धस्य भोक्तारं सा सारं जनयेत्सुतम् ॥ ८० ।। चतुर्दशाप्यमून्खमान्या पश्यत्किचिदस्फुटान् । सा प्रभो प्रमदा मृते नन्दनं चक्रवर्तिनम् ॥ ८१ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy