SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ श्रीवर्धमानमूरिविरचितं [स. २. २२०७-२२१७] राज्यबन्धं परित्यज्य दक्षः पक्षीव पञ्जरम् । आत्मारामाभिरामां स दीक्षाशां शिश्रिये मुदा ||२२०७ || कृतकेशोद्धृतिर्नत्वा वज्रनाभगुरुं तदा । छत्रीभूते गुरोः पाणौ पपाठेति क्षमापतिः ।। २२०८ ॥ करोमि भगवन्नेवं सामायिकमिह व्रतम् । सर्वे सावद्यकं योगं प्रत्याख्यामि ध्रुवं त्रिधा ।। २२०२ ॥ तदा केवलिनं राजमुनिं चानम्य भक्तितः । साश्रुनेत्रः समं राज्ञा सर्वो लोकः पुरे ऽगमत् ।। २२१० । लब्धसंयमसाम्राज्यो यथाकल्पमनल्पधीः । विनयी विजहारैष राजर्षिर्गुरुभिः समम् ।। २२११ ॥ आचाराङ्गं तथा सूत्र कृच्च स्थानाङ्गमप्यथ । समवायाङ्गं विवाहमज्ञप्तिर्भगवत्यसौ ।। २२१२ ॥ ज्ञाताधर्मकथा तस्मादुपासकदशा तथा । अथान्तकृद्दशा चानुतरोपपातिका दशा ।। २२१३ ॥ प्रश्नव्याकरणं चात्र विपाकश्रुतमेव च । सूत्रादर्थादपीत्येकादशाङ्गान्यथ सो ऽपठत् ।। २२१४ ॥ त्रिभिर्विशेषकम् || २४८ ww उपवासोनोदरते वृत्त्यल्पत्वं रसोज्झनम् । संलीनता वपुः क्लेश इति बाह्यं तपश्चरन् ॥ २२१५ ॥ प्रायश्चित्तं वैयावृत्यं स्वाध्यायो विनयस्तथा । कायोत्सर्गश्व सद्ध्यानं तन्वन्नित्यान्तरं तपः ॥ २३१६ ॥ स सद्वीर्यः स्फुरद्धैयैः सुश्लिष्टान्यपि हेलया । कर्माणि जर्जरीचक्रे काननानीव कुञ्जरः ।। २२१७ ॥ त्रिभिर्विशेषकम् ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy