SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २३० श्रीवर्धमानमूरिविरचितं [स.२.१९९८-२००८] चचार चारणमुनिर्मनुष्याप्रहते पथि ॥ १९९८ ॥ इहैव हि स्थितैः पाल्यः कुमारागमनोत्सवः । इत्यालोच्य जनैस्तस्थे तटिनीतट एव तैः ॥ १९९९ ॥ एष्यत्यय कुमारेन्दु न्यथा मुनिवागिति । चतुर्थाहर्निशीथे ऽपि स जनो जागरी स्थितः ॥२०००॥ रे रे मया हृतां कन्यां व्यूह्य नीत्वा क यास्यसि । अयं न भवसि क्षिप्रमस्त्रमस्त्रज्ञ सज्जय ॥ २००१॥ रे रे वधू मया व्यूढामेतामाच्छेत्तुमिच्छसि । एभिरेव पदैरोहि पातयामि शिरस्तव ॥ २००२ ॥ एवं वधूविरोधेन क्रोधेन व्याम्नि धावतोः । कयोश्चन जनेनोचैरुक्तिमत्युक्तयः श्रुताः ॥ २००३ ॥ त्रिभिर्विशेषकम् ।। किमेतदिति संभ्रान्तः स जनो दिवि दत्तहक् । खड्गमहारखाट्कारान्सहुंकारानकर्णयत् ॥ २००४ ॥ मा भूदिह कुमारेन्दुः स्याञ्चेत्तज्जयतादसौ । इत्यासन्नुक्तयो ऽन्योन्यं जनस्याकुलचेतसः ॥ २००५ ॥ एतस्मिन्नन्तरे खड्गक्षतक्षतजष्टिकृत् । पपात पुरुषः को ऽपि दिवो दीप्तवपुर्व्यसुः ॥ २००६ ॥ हा नाथ मां द्विषानेन हियमाणां न पासि किम् । रणाग्रमरणो ध्यानसिद्धसिद्धिः सुरो ऽसि यत् ।।२००७॥ एवं रुदत्याः कस्याश्चिदूर दूरं मृगीदृशः। .. शुश्रुवे हियमाणाया इव व्योमाध्वनि ध्वनिः ॥ २००८ ॥ ... .. . . . युग्मम् ॥ पुमांसं पतितं यावदापनक्षत भूपतिः। .
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy