________________
श्री वर्धमानसूरिविरचितं [स. २.१७६२ - १७७३]
चक्रे पञ्चनमस्कारमन्त्रध्यानं वधूसखः ।। १७६२ ।। यथाकालपतनीरो नीरोगो निरुपद्रवः । सरसान्नसमुदेशो देशो ऽमुष्य तदाभवत् ।। १७६३ ॥ दुग्धैः क्षरद्भिर्धेनूनां धारालैरूधसः पथि । यशोभिरिव भूपस्य तदा तस्य व्यभूषि भूः ।। १७६४ ।। आविर्बभूवुः सर्वेषु शैलेषु मणिखानयः । आसन्सर्वेष्वरण्येषु तदा तद्भुवि दन्तिनः ।। १७६५ ॥ इत्थं महर्द्धिवर्धिष्णुनिः शेषविषयव्रजः । कदाचिदपि निद्रान्ते निशान्ते ऽचिन्तयन्नृपः ।। १७६६ ।। अहो महत्त्वं मन्त्रस्य यत्प्रसादवशादभूत् । राज्यं मम मनोहारि स्पृहणीयं हरेरपि ।। १७६७ ॥ नयनानन्दसंदोह मन्दिरं नन्दनस्तु माम् । नाधुनापि धनोतीन्दुरिव दुग्धपयोनिधिम् ।। १७६८ ॥ इति ध्यानभृतं धात्रीभृतं सद्यो विनिद्रदृक् । राज्ञी विज्ञपयामास संमदोल्लास संपदा ।। १७६९ ।। पीयमान सुधापूरं जनिताञ्जलिभिर्जनैः । वर्षन्कर्षन्करैर्बिम्बान्मलिनं लक्ष्म निर्मलैः ।। १७७० ॥ योगीन्द्रैरपि साक्षेपं लक्ष्यमाणो ऽधुना मया । स्वप्ने दर्शि प्रविश्येन्दुर्वदनेनोदरं स्थितः ।। १७७१ ॥ ॥ युग्मम् ॥
इत्याकर्ण्याद्भुतस्वमसोमां रोमाञ्चितः कथाम् । राजा वदनराजीवमरन्दमसृजरिम् ।। १७७२ ।। अकलङ्ककलाशाली धर्मात्मा मधुराकृतिः । जगतामुपजीव्यस्ते भविता देवि नन्दनः ।। १७७३ ।।
२१०