SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ [स.२. १५८८ - १५९८] वासुपूज्यचरितम् १९५: क्रियमाणतपस्तारं मूर्तीभूतैश्च सेवितम् । कृतैः करिष्यमाणैव तपोभिरिव साधुभिः ॥ १५८८ ॥ विनयं धरनामानं विद्याधर मुनीश्वरम् । उत्तरन्तं पुरोभागे स्त्रस्य भाग्यमिवाद्भुतम् ।। १५८९ ॥ नवभिः कुलकम् ॥ पदं ददौ च स क्ष्मायां ननाम च जनाधिपः । तं त्रिः प्रदक्षिणीकृत्य सानन्दः सपरिच्छदः ॥ १५९० ॥ अथाधाय करौ मूर्ध्नि पृथिवीपालपुङ्गवः । मुनिं व्यजिज्ञपद्दत्ताशिषं कृत्ता शुभद्विषम् ।। १५९१ ॥ प्रभो नभोङ्गणस्यास्य किमभाग्यं विजृम्भितम् । किं भाग्यं मद्भुवो वा यत्तन्मुक्त्वा त्वमिमां श्रितः।। १५९२ अद्य नाथ कृतार्थो sहमद्य मे सफलं जनुः । अद्य मे जीवित श्लाघ्यमद्य राज्यं च मे ऽनघम् ॥ १५९३ तव स्तवामृते वाचि दर्शने श्वास सौरभे । पदस्पर्शे मिथोहत्या ममाक्षैः क्रियते कलिः ।। १६९४ ॥ तद्ध्वानिनीं सितां शीतां सुरभिं मधुरां गिरम् । यच्छ देशप्रसादेन पञ्चाक्षमीतये प्रभो ।। १५९५ ॥ युग्मम् ॥ अथ तीर्थेशसिद्धान्तकल्पद्रु कुलुमै पुनिः । वचोभिः शोभयामास वसुधावासवश्रवः ।। १५९६ ।। चिराद चौघसंघट्टविपाटनपटीयसीम् । नमः पथेन मे तीर्थयात्रामुवश कुर्वतः ।। १५९७ ॥ इदमचैव देवाधिदेवमन्दिरमण्डलैः । भद्र धर्मद्विपालास्तम्भैरिव विभूषितम् ।। १५९८ ॥ जिनेश धूपधूमोर्मिनाशितैर्म शकैरिव ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy