SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ rwwwvvwwwwwwwwwwwwwwwwwwwwwww. श्रीवर्धमानसूरिविरचितं [स.२.१५३०-१५४०] प्रभावनाद्यलंकाराकृष्टविष्टपचेतसः । दानशीलतपो ऽङ्गस्य जीवो धर्मस्य भावना ॥ १५३० ॥ अज्ञानध्वान्तसंधाने ध्याने सिद्धिपुराध्वनि । अध्वगस्यात्मनो भाति भावना रत्नदीपिका ॥१५३१॥ सदानशीलतपसां भवयुद्धाय धावताम् । अग्रेसरी भवत्येका भावनैव महाभट्टी ॥ १५३२ ॥ सतां दमक्षमामुख्यधर्ममुक्तावली हृदि । .. अन्तर्भावनया धत्ते कान्ति नायककान्तया ॥ १५३३ ॥ दानशीलतपोभाजामप्याश्चर्यकर फलम् । . दत्ते चन्द्रोदरस्येव विधर्मस्यापि भावना ॥१५३४ ॥ तथाहि संपदुद्वाहिकरैः स्फीता वरैर्नरैः ।। चतुर्धर्मचतुर्वेदिरस्ति इस्तिपुरी पुरी ॥ १५३५ ॥ तत्रामित्रकलत्राश्रुधारातसयशोलतः ॥ श्रीरामो नाम सद्वत्तकृतार्थः पार्थिवो ऽभवत् ॥१५३६।। सतीशतशिरोरत्नं स्त्रीरत्नं तस्य वल्लभा । धाम्ना कलितनाकश्रीजयाजनि जयावली ॥ १५३७॥ जितस्वर्ण तनूवर्ण निन्दितेन्द्रपदं पदम् । सकलं सफलं मेने तयैव प्रियया नृपः ॥ १५३८ । प्रियेण प्रीतिभिर्लाल्यमाना लोकेषु विश्रुतम् । देहार्धदाननिर्भोगं शिवयोः प्रेम साहसत् ॥ १५३९ ॥ अद्वितीयेन तौ प्रेमगुणेन विनियन्त्रितौ। मिथो विघटितुं दूरे नैव शेकटुरेवतः ॥ १५४० ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy