________________
श्रीवर्धमानमूरिविरचितं [स. १९८२-१९९३]
दृष्टब्रह्मानुभावापि रोहिता तुच्छमोहिता । . श्रीषेणे नात्यजत्कामं स्नेहबन्धो हि दुस्त्यजः ।। ११८२ ॥ पत्युरावर्जनायासौ तन्वती गृहिणां व्रतम् । अक्षीणरागा क्षीणाङ्गी मृत्वा भूद्व्यन्तरी वरा ।। ११८३ ।। अवधिज्ञानतो ज्ञात्वा तं मुनिं स्थानके ऽत्र सा । आगमत्याग्भवप्रेमपूरपूरितमानसा ।। ११८४ ।। हावैः प्रीतिीगिरां भावैर्व्यन्तर्योपहृतो ऽपि सः । नाचलद्ध्यानतो दन्तिदन्तघातैरिवाचलः ।। ११८५ ।। किं त्वस्य क्षपकश्रेण्यामारूढस्य मुनीशितुः । केवलज्ञानमुत्पेदे विच्छेदे घातिकर्मणाम् ।। ११८६ ॥ तन्मत्वा व्यन्तरी मुक्तमोहा भक्तिमिमां व्यधात् । सुगन्धानिलहेमाब्जरत्नसिंहासनादिकम् ।। ११८७ ॥ जाते च निर्विषे नागे व्योम्नि वाग्निर्ममे ऽनया । भवेत्मभावनायां हि सम्यग्दृष्टेरभीष्टता ।। ११८८ ।। सोऽहं श्रीषेणनामास्मि यतिर्नृपतिनन्दनः । विनीता व्यन्तरी चेयं तव दक्षिणतः स्थिता ।। ११८९ ।। पच्छे यत्त्वया सौम्य द्वितीयं व्रतकारणम् । तदेतदिति वैराग्यं ज्ञेयं विषयदोषजम् ।। ११९० ॥ इत्थं कथायास्तत्त्वार्थमवबुध्य धियां निधिः । सनत्कुमार। संसारकान्तारातिक्रमोद्यमः ।। ११९१ ।। उन्मीलितमुखाम्भोजः केवलज्ञानभास्करम् ।
गुरु विज्ञपयामास नत्वा सवाधिकाधिपः ।। ११९२ ।। युग्मम् ।। सच्चारित्र चरित्रं ते पवित्रं यन्मया श्रुतम् । तस्योचितं ततः स्याच्चेद्व्रतमा सेव्यते परम् ।। ११९३ ॥
१६०