SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ www.www.www.www.www.. श्रीवर्धमानसूरिविरचितं [स.१०२०-१०३०] यत्रैकादश मासांस्तु लुश्चितो मुण्डितो ऽथवा । रजोहरणसंयुक्तः पतद्रहपरिग्रहः ॥ १०२०॥ किं चैकादशप्रतिमाभृते भिक्षां हि देहि मे । इत्युक्त्या विचरत्यात्मजातौ सैकादशी भवेत् ।। १०२१ ।। युग्मम् ।। तदेतामु स सम्यवाणुव्रतानि प्रपालयन् । अधुना वहमानो ऽस्मि दर्शनमतिमामहम् ॥ १०२२ ।। तत्र प्रभातमध्याह्ने सायं कालत्रये जिनः । पूज्यते त्रिजगत्पूज्यो यावन्मासं यथाविधि ॥ १०२३ ॥ वतो हमय मध्याहे पूजां कृत्वा जिनेशितुः । आगां ग्रामजनाचारे पश्चादतिरतो ऽभवम् ॥ १०२४ ॥ को ऽपि कुत्रापि केनापि संबन्धेन स्वकर्मतः ।। अभूद्भवाननन्तान्मे भ्रमतः श्रमतस्करान् ।।१०२५ ।। अतः कस्य विपन्नस्य शोकं कुर्वे कृते ऽत्र वा। किं भवेत्तन शोको ऽयमस्तोकोऽपि दुनोति माम् ॥१०२६॥ युग्मम् ।। मृत्युयोगो ऽस्य नास्तीति यदुक्तं प्रस्तुतं मया । नत्र धात्रीपतेः पुत्र समाकर्णय कारणम् ॥१०२७ ॥ ___ नन्दिग्रामे ऽस्ति सारङ्गनामा ग्रामाग्रणीरिह । कौटुम्बिको ऽम्बिकासंज्ञभार्यावर्यगृहस्थितिः॥ १०२८ ॥ तजन्मा नागनामासीत्संध्यायां स्तने दिने। अयं पुष्पोच्चयं तन्वन्दष्टो दुष्टाहिना वने ॥ १०२९ ॥ ततो विषभिषग्वन्दैस्मन्दैमन्त्रसंमदैः । थाल्यमानो ऽव्ययं प्राप दीर्घस्वापयशां शाम् ।।१०३०॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy