SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ [स. २. ५८१-५९१] वासुपूज्यचरितम् वैक्रियक्रियायेवं ज्ञेयं बन्धचतुष्टयम् । इत्थमाहारकाहारकादिदेहचतुष्टयम् ॥ ५८१ ॥ तैजसतैजसं गात्रं ततस्तैजसकामेणम् । कार्मणकार्मणं चेति बन्धाः पञ्चदश स्मृताः ॥ ५८२ ॥ त्रिभिर्विशेषेकम् ॥ रम्यारम्याणि रूपाणि कुर्याचित्रकरो यथा । तथा नामापि जीवानां तत्तच्चित्रकोपमम् ॥ ५८३ ॥ एतस्य स्थितिरुक्तृष्टा भविनां नामकर्मणः । विंशतिः कोटिकोटीनां सागरोपममानतः ॥ ५८४ ॥ गोत्रं द्विधा धिया लक्ष्म्या हीनो ऽप्यों भवी भवेत् । तदुच्चं सहितो ऽप्याभ्यां नार्यो नीचं तदुच्यते ॥ ५८५ ॥ यथा कुलालान्मृत्पिण्डः पूर्णकुम्भः सुराघटी । स्तुत्यो निन्धस्तथातः स्यादात्मा तत्तेन तत्समम् ॥ ५८६ ॥ आत्मनि स्थितिरेतस्य गोत्रसंज्ञस्य कर्मणः। .. सागरोपमसंबद्धा स्यात्कोटिविंशतिः॥ ५८७॥ अन्तरायाभिधं कर्म भेदैः पञ्चभिरष्टमम् । स्यादानलामभोगोपभोगसामर्थ्यलक्षणैः ॥ ५८८ ॥ दानं विनीतादत्ते राड्भाण्डागारिकतो यथा । तथास्मादपि जीवोऽ तस्तद्भाण्डागारिकतोपमम् ॥५८९ ॥ अन्तरायाभिधानस्य स्थितिरेतस्य कर्मणः । सागरोपमसंख्यायां स्युस्त्रिंशत्कोटिकोटयः॥ ५९० ॥ इत्यल्पं जल्पितो ऽनल्पकालः कर्ममहागदः। शुद्धध्यानौषधमाणैः सद्भिः शाम्यो ऽप्रमादिभिः ॥५९१ ॥ शुद्धं ध्यानमपि प्राप्यं कषायविषयोज्झनैः।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy