________________
འ་ན་ ངན ག ག ན་ ག ག ན ངང བ ན བ ང བ བ བྷ བ ན བ བ ག ག ག གནས ་
[स.२. ४३८-४४९] वासुपूज्यचरितम्
अहं महापातकिना वन्दीचक्रे चिरं त्वया । प्रयामि संप्रति न्यस्य त्वदीयहृदये पदम् ॥ ४३८ ॥ ईदृक्तद्वचनक्रुद्धो भटानित्यहमभ्यधाम् । ध्रियतां ध्रियतामेष हन्यतां हन्यतामयम् ॥ ४३९ ॥ ततो मरुत्त्वरातारपचरचरणः क्षणात् । तया सह स हर्षिप्यागमद्गृहबहिर्महीम् ॥ ४४० ॥ एष यात्येष यातीति प्रवानैरनुधावताम् । पुरःस्था अपि पौरास्तं न धतु शेकुराहताः ॥ ४४१ ॥ उत्फुल्लफेनया धावद्धयानां सेनया मया । मनसेवेन्द्रियग्रामः सो ऽन्वगामि प्रवेगिना ॥ ४४२ ॥ पर्यन्तं पर्यटन्पुर्यास्तदन्वेषपरः पुरः। आलोकयं चमू कांचित्काञ्चनोद्भासिभूषणाम् ॥ ४४३ ॥ तदन्तर्भद्रदन्तीन्द्रपृष्ठारूढस्य कस्यचित् । करे तेनार्पि सा सो ऽपि तां वामाने न्यवीविशत् ॥ ४४४॥ सा च वाचः सुदूरस्थं मां वीक्ष्य स्त्रीत्वलम्पटा । तदङ्गालिङ्गनी वामकराङ्गुष्ठमनर्तयत् ॥ ४४५ ॥ तनिरीक्ष्य विलक्षो ऽहमेतच्चेतस्यचिन्तयम् । अहो महोदधिर्मोहमाहम्नां महिलाजनः ॥ ४४६ ॥ मदिराया गुणज्येष्ठा लोकद्वयविरोधिनी । कुरुते दृष्टमात्रापि महिला अहिलं जनम् ॥ ४४७ ॥ परापकाराहंकारि किं विषं सन्ति हि स्त्रियः । यत्सेवनभवस्तापः परत्रापि न शाम्यति ॥ ४४८ ॥ स्त्रियां विषतनौ दक्षा लक्षणावपरीत्यतः । सुधाकराद्यैरौपम्यं ददुस्तन्न जडा विदुः ॥ ४४९ ॥