________________
[स.२. ३९१-४०१] वासुपूज्यचरितम्
वहन्ति मणयो मोहमहीपमहदीपताम् । यल्लोभलोलुभा नाधः के पतन्ति पतङ्गवत् ॥ ३९१ ॥ तितीर्षवो भवाम्बोधि बोधिबोहित्थवाहिताः । त्यजन्ति दूरतो मध्यभूधरानिव सिन्धुरान् ॥ ३९२॥ भवाटवीकुरगाणां तुरगाणां चलात्मनाम् । मोहश्रीग्विलासानां गोचरे नो चरेत्कृती ॥ ३९३ ॥ मोहभूमिभुजङ्गस्य जङ्गमास्थानमण्डपम् । छायाछलात्तले व्याप्तं पातकैस्तस्य सेवकैः ॥ ३९४ ॥ छत्रं विवेकमार्तण्डप्रकाशभरनाशकम् । न को पि सेवते ताहग्जडताचकितः कृती ॥ ३९५ ॥
युग्मम् ॥ रत्नान्यगाधवर्तीनि स्त्रियो भान्ति भवार्णवे । पुपान्मज्जत्यनुन्मज्जो यत्पाणिग्रहणाग्रही ॥ ३९६ ॥ एतदीदग्विधं मोक्तुमशक्तः सकलः कृती । असक्त एव सेवेत शीतभीत इवानलम् ।। ३९७ ॥ तदिदानीमहं मोहादतो निर्गन्तुमुद्यतः ।। राज्ञां राज्यश्रमः सूनुर्योवनान्तो हि नः कुले ॥ ३९८ ॥ तातो मामिव वत्स त्वां स्वस्थाने स्मिनिवेश्य तत् । मोहवीरस्य कारातः संसारानिरये ऽधुना ॥ ३९९ ॥ इत्युक्ता बलतो राज्याभिषेकं विरचय्य मे । नृपो लक्ष्यतपोलक्ष्मीयौवनं प्रययौ वनम् ॥ ४००। परिपालयतो राज्यं ममापि क्ष्मापशिक्षया । रानी रत्नावली नाम प्राणेभ्यो ऽपि प्रियाभवत् ॥ ४०१ ।। भवानुबन्धिनी जानन्नपि तां तद्गतं मनः ।