________________
८८
श्रीवर्धमानमरिविरचितं [स.२.३३१-३४२] नावदाधिराभूत्को ऽपि पुरः श्रीभासुरः सुरः ॥ ३३१ ॥ कमलाभमुखोन्मीलकलहंसकलस्वरः । सजगी जगतीजानितवयं विनयान्वितः ॥ ३३२ ।। शिक्षयित्वा त्वयामोचि चौरः कारुण्यगौर यः। सो ऽहं सद्धर्मनिर्माणादीदृशीं श्रियमश्रयम् ॥ ३३३ ॥ विपनिपतितं मत्वा तवामवधिनाधुना । प्राप्तो ऽस्मि प्राणदानेन क्रीतानां समयो ह्ययम् ॥ ३३४ ॥ एवमुक्त्वा समित्रस्य वपुर्नृपतिजन्मनः। स चकार करस्पृशादतापं दलितश्रमम् ॥ ३३५ ॥ नाध प्रभृति दुखस्य लवो ऽपि भविता तव । इत्युदित्वा स विद्योते?तयन्यां विरोदधे ॥ ३३६ ॥ ते ऽपि तोयरुहभ्रान्तभृङ्गीगीते ऽरुणोदये । कान्तारान्ताय संचेतुस्तचरित्राचेतसः ॥ ३३७ ॥ तारेतरणितासम्पकारुण्येन व्यलोकि तैः । ... आपतद्विपिनकोडे क्रोडानामाकुलं कुलम् ॥ ३३८॥ युद्धाय धावता यूयं पश्यता नश्यता मुहुः। खेदितं मेदुरेणाय प्रोथिनाथेन केनचित् ॥ ३३९ ॥ कंचिदश्चितकोदण्डमुद्दाण्डयमण्डनम् । उत्किरीदं नरं मेक्ष्य कुमारस्तारमीजंगौ ॥३४॥युम्मम्।। त्वमीशो ऽसि महाभाग महीभागस्य कस्यचित् । आज त्वङ्गलक्ष्याणि लक्षणानि क्दन्त्यदः ॥ ३४१ ॥ राज्ञां द्विषो ऽप्यवध्यास्ते ये दधुस्तृणमानने । नृहंस हंसि तज्जन्तूभिर्मन्तून्कि तृणाननान् ॥ ३४२॥ अकृताङ्गपरिष्काराः सदाचारा वनौकसः।