________________
अष्टमः सर्गः।
४५१ गच्छन्नतुच्छसार्थोऽसौ भीष्मां पद्माटवीं ययौ । ज्यहेणोल्लङ्घय चैकस्य सरसस्तीरमावसत् ॥ ८६ ॥ चण्डसेनाऽभिधस्याऽथ सार्थे तस्मिन्नचिन्तिताः । पल्लीशस्य यमस्येव भिल्लाः शल्या इवाऽपतन् ॥ ८७ ॥ ते तत्सर्वस्वमादाय प्रियदर्शनया सह । पल्लिशायाऽर्पयन् सोऽपि तां दीनां वीक्ष्य दुःखितः ।।८८॥ केयं कस्येत्यपृच्छच्च तच्चेटी साऽप्यचीकथत् । कौशाम्ब्यां जिनदत्तस्य पुत्रीयं प्रियदर्शना ॥ ८९ ॥ तत् श्रुत्वा सहसाऽमूछेल्लब्धसंज्ञश्च पल्लिराद् । नत्वोचे भगिनी मे त्वमुपकारिसुताऽसि यत् ।। ९० ॥ शृणु प्रागस्मि कौशाम्ब्यां गतश्चौरैर्वृतो बहिः । सायं मयं पिस्तत्र निरीक्ष्याऽऽरक्षकैधृतः ॥११॥ वधार्थ नीयमानोऽहं पौषधान्ते निजं गृहम् । त्वपित्रा गच्छता दृष्ट्वा नृपं विज्ञप्य मोचितः ॥ ९२ ॥ तत् तेऽहं किं करोम्यद्य तेनेत्युक्तांऽथ साऽब्रवीत् । पतिं दर्शय मे बन्धुदत्तं धाव्या वियोजितम् ॥ ९३ ।। कृतमेवेदमित्युक्त्वा पल्लीशस्तां सुरीमिव । पश्यन् भक्त्या गृहे मुक्त्वा तत्पतिं वीक्षितुं ययौ ॥१४॥ भ्रान्त्वा बन्धुमसंप्राप्य पुनः स्वगृहमागतः । स बन्धुदत्तभार्यायाः साक्ष्यं प्रत्यशृणोदिति ॥१५॥ षण्मासान्ते बन्धुदत्तं नाऽऽनयामि समीक्ष्य चेत् । ज्वलज्ज्वालाकुले नूनं तदा वह्नौ विशाम्यहम् ।। ९६ ॥ भैषीच सर्वतो भिल्लान् भ्रान्तास्तेऽपि चिरं परम् । बन्धुं नाऽऽपुर्विलक्षाऽऽस्यः पल्लीशोऽथेत्यचिन्तयत् ।।९७॥ धारयन्नक्षमः प्राणान् प्रियाविश्लेषदुःखितः । भृगुपातादिना काऽपि बन्धुदत्तो तो ध्रुवम् ॥ ९८ ॥ गताः सन्धाऽवधेर्मासाश्चत्वारः साम्प्रतं पुनः ।