________________
सप्तमः सर्गः। निर्वाह्य तन्मना भूपः क्रमेणाऽऽप परं पदम् ॥ ७४६ ॥ एवं भव्या न के जग्मुः पूज्यतां जिनपूजया ?। तदहो ! सर्वथा धन्याः प्रयतन्ते जिनार्चने ॥ ७४७ ॥ निराकाङ्क्षतया सा तु कर्तव्या, काङ्क्षया यतः । भक्तिच्छलेन देवस्य प्रत्युताऽऽशातना भवेत् ॥ ७४८ ॥ तथााटव्यामेकत्र गिरिगह्वरमध्यगे । शिवस्य प्रतिमा चैत्ये व्यन्तरेणाऽस्त्यधिष्ठिता ॥ ७४९ ॥ सकलेयमिति ज्ञात्वा मुग्धको नाम धार्मिकः । दूरादागत्य तां मूर्ति नित्यमर्चति सादरम् ।। ७५० ॥ स्नपयित्वा जलैः स्वच्छैर्विलिप्य घनचन्दनैः । प्रपूज्य पुष्पैः सद्गन्धैौकयित्वा बलिं पुरः ॥ ७५१ ॥ प्रधानागरुमुक्षिप्य स्तवं कृत्वा मनोहरम् । नतमूर्धाञ्जलिं बद्धा भाषते नित्यमित्यसौ ॥ ७५२ ॥
(युग्मम् ) त्वयि तुष्टे मम स्वामिन् ! संपत्स्यन्तेऽखिलाः श्रियः । त्वदेकशरणोऽस्म्येष प्रसीद परमेश्वर ! ।। ७५३ ।। इति विज्ञप्तितस्तस्य सचिन्तो जायते सुरः । वृक्षोऽप्यपके पीड्येत च्छिद्यमाने फले ध्रुवम् ॥ ७५४ ॥ अन्यदा धार्मिकः पूजामपनीतां निरीक्ष्य सः। पूजयित्वा पुनः पूजाहृतिं ज्ञातुं रहः स्थितः ॥ ७५५ ।। एकः पुलिन्द्रको यावद् वामहस्ते धनुःशरान् । धृत्वा पुष्पाद्यमन्यस्मिन् जलापूर्णमुखो द्रुतम् ।।७५६।। तत्रागत्य शिवस्याद्यपूजामुत्सार्य चाघ्रिणा । गण्डूषाच्छोटनं कृत्वा क्षिप्त्वा पुष्पौघमानमत् ॥७५७॥ सुरस्तेन समं तोषादालापं कर्तुमुद्यतः। तदेकान्तगतो दृष्ट्वा धार्मिको हृयदूयत ॥७५८॥ पुलिन्द्रे च गते कोपादुपालेभे सुरोऽमुना ।