SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः। ४२३ चन्द्राऽऽलोकेन किं न स्यात् पाषाणस्य जलद्रवः ? ॥५६२॥ अस्य कुर्वन्तु सानिध्यमधुना वनदेवताः। इत्युक्त्वा मुमुचे बालं स तस्यैव तरोस्तले ॥ ५६३ ॥ चलितश्च ततः स्थानाच्चण्डभृत्यः पुरं प्रति । तदीयप्रतिबन्धेन बन्धेनेव स्खलद्गतिः ॥ ५६४ ॥ पश्चाच्च वलितग्रीवं वीक्षमाणो मुहुर्मुहुः । कान्तिरश्मिभिरतस्याऽऽकुञ्च्यमान इवाधिकम् ॥५६५॥ . (युग्मम् ) गत्वा न्यवेदयद् राज्ञो यथाऽऽदेशः कृतः प्रभो!। तच्छ्रुत्वा सुतरामस्मै नृपः प्रासादिकं ददौ । ५६६ ॥ अथाऽऽसन्नाऽऽगते सूरे पद्मबन्धौ भयादिव । नष्टा श्रस्ततम केशी पद्मश्रीहारिणी निशा ॥ ५६७ ॥ मुखेन दिनसिंहस्य भिन्नध्वान्तेभकुम्भतः। . मुक्ता इव गलन्ति स्म दिक्षु सर्वासु तारकाः ॥५६८ ॥ रविरद्याऽपि दूरेणाऽरुणेनैव हृतं तमः । खामिनः सुप्रतापेन समर्थाः पङ्गवोऽपि हि ॥ ५६९ ॥ निलीनमन्धलैमूकैचूंकैगिरिगुहादिषु । स्वयमेव विलीयन्ते काले किल भयङ्कराः ॥५७०॥ दिक्षु सर्वासु पूर्वाऽऽशा सान्ध्यरागवती बभौ। . सत्कुङ्कुमाङ्गरागव दिवा भर्तुः समागमे ॥ ५७१॥ अमिलचक्रयुग्मोघो रुवन्नाख्यन्निवाङ्गिनाम् ॥ दिने प्रतीक्षते भूयो भवत्येवेष्टसङ्गमः ॥ ५७२ ॥ अथैवं समये तस्मिन्नारामे मालिको गतः । सहसा वनमद्राक्षीत् पत्र-पुष्प-फलाऽऽकुलम् ॥५७३॥ प्रायश्छायाऽपि दुष्पापा यत्र पत्रावभावतः। स आरामोऽभिरामोऽभूदन्धकूपोऽपि सोदकः ॥ ५७४ ॥ किमेतदश्रुताऽदृष्टपूर्वमित्यतिविस्मितः।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy