________________
३७५
षष्ठः सर्गः। रागादिरिपुभिर्याप्तश्छलैक्षिभिरिवाऽभितः ॥ १३०३ ॥ परीषहैरपि जितः सहसा स क्षुधादिभिः।। कैराक्रम्येत निःसन्चो न मन्दाग्निरिवाऽऽमयैः १ ॥१३०४॥ भावभ्रष्टमिति ज्ञात्वा तत्यजुः साधवोऽपि तम् । वाताण्डमिव भारुण्डा गुरुणा चाऽप्युपेक्षितः ॥ १३०५ ॥ स च तुष्टस्तदा बाधामुक्तोऽपथ्यक्षणेच्छया । वैद्य-शुश्रूषकाऽभावे यथा रोगी मुमूर्षकः ॥ १३०६ ॥ .. अन्यदाऽवसरे द्रव्यलिङ्गोपकरणान्वितः । गत्वा वनगरी तस्थौ बहिरुद्यानसीमनि ॥१३०७॥ पालम्ब्य तरुशाखायां पात्रकं हरिताऽवनौ । निविश्याऽऽकारयमास भूपमुद्यानपालकान् ॥ १३०८ ॥ कण्डरीक इहायातः किमेकाकीति चिन्तयन् । वृतः कतिपयैस्तत्र प्रधानैर्भूपतिर्ययौ ॥ १३०९ ॥ दृष्ट्वा भग्नपरीणामं वन्दित्वा तं नृपोऽब्रवीत् । कुशलं ते सोऽपि प्राह यादृगस्ति त्वमीक्षसे ॥१३१०॥ संभ्रान्तः पुनरप्याह भूपः कूपसमे भवे ।। संयमं मेरुमारुह्य किमात्मानं प्रपातयः ? ॥ १३११ ।। कुलस्याऽतिकलङ्कोऽयं दीक्षां सन्धां च येत्र भोः । आदाय समितेर्भग्ना वलन्ति सुखलम्पटाः ॥१३१२॥ सुलभं सुमहद् राज्यं सुलभा गुणसम्पदः । सुलभं सर्वमप्यन्यजिनधर्मस्तु दुर्लभः ॥१३१३॥ कण्डरीकोऽथ तं प्राह यदिष्टं तत् प्रयच्छ मे । किं वचोभिः क्षुधार्तस्य जलपानसमैरिमैः ॥१३१४।। औषधं जीवनिर्मुक्ते शुष्कमूले जलोक्षणम् । भावभ्रष्टे हिताख्यानं किं करोतीति चिन्तयन् ॥१३१५॥ नृपः प्राह गृहाणेदं राज्यं येनाऽस्य रक्षकः । चिरान् मे वाञ्छितोऽभ्यागाद् हितायैतत्तु भाषणम् १३१६