SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३७४ श्रीपार्श्वनाथचरितेनर-नारीगणा यत्र सङ्गीतकमनोहराः। राजन्ति जङ्गमाः क्रीडासौधा इव मधुश्रियः ।।१२९२ ॥ (युग्मम् ) चिरं स्थित्वा जला-ऽऽन्दोल-पुष्पावचयकेलिभिः । निषीदन्ति वने लोका माधवीमण्डपादिषु ॥ १२९३ ॥ प्रसूता चर्चरी दिक्षु चक्षुराक्षेपकारणम् । मुनेरपि किमन्येषां कौतुकाकुलचेतसाम् ? ॥ १२९४ ॥ वसन्ते विलसत्येवं पापकर्मोदयान्मनः । चलितं स्मृतराज्यस्य कण्डरीकस्य संयमात् ॥ १२९५ ॥ कर्मवैचिच्यतोऽनादिभवाभ्यासक्शेन च । तारुण्यस्य विकारित्वात् काम्यत्वात् काननस्य च १२९६ तादृग्वंशोद्भवस्याऽपि तस्य व्रतविघातकृत् । . चारित्रावरणीयाख्यमुदीर्ण कर्म कर्कशम् ॥ १२९७ ॥ अत उच्यतेनैवाऽस्ति नाऽप्यसौ भावी विततेऽपि जगत्त्रये । यो यौवनमनुप्राप्तो निर्विकारः सदा भवेत् ।। १२९८ ।। सा श्रद्धा सा च गुर्वाज्ञा तत् प्रतिज्ञातमुच्चकैः । सकुलस्याऽपि मानश्च सर्वमेकपदे गतम् ॥ १२९९ ॥ अलं प्रव्रज्यया दुःखदायिन्या राज्यमेव तत् । श्रयामीति धिया सोऽभूद् बाह्यकृत्येऽप्यनादरः १३०० ॥ यतः सद्रव्यलाभलोभेन यथा क्लेशो न दुःसहः । तथा धर्माशयानिष्टचेष्टा कष्टं पुनर्भृशम् ॥ १३०१॥ उच्यते चदेवलोकसमानो हि पर्यायो यतिनां व्रते । रतानामरतानां च महानरकसनिमः ॥ १३०२ ॥ धर्मे भग्ने गुणे भ्रष्टे स लब्धाऽवसरैस्ततः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy