SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३५३ षष्ठः सर्गः। विनोदान् विविधान् कुर्वन् कस्य न प्रीतयेऽजनिः॥१०१७॥ अथाऽस्य यौवनारम्भस्तनौ जनगुत्सवः। पावर्तत वसन्तश्च वने तौ तु श्रिया समौ ॥ १०१८ ॥ यथा हि यौवनारम्भो न वसन्तसमः कथम् । यत्र तस्य मुखं जज्ञे स्मेरचम्पकसन्निभम् ॥ १०१९ ॥ केशा भ्रमरवद् रेजुर्नवं दलमिवाऽधरः । दीर्घिकावद् दृशौ कौँ दोलावत् क्रीडितुं श्रियः॥१०२०॥ तयोः सदृशयोर्योगमिव कर्तुं कुमारराट् ।। महा मकरन्दाख्यमुद्यानं मुदितो ययौ ॥ १०२१ ॥ मित्रेण सहितोऽनेकैनरनाथैश्च नागरैः । नानावसन्तक्रीडाभिश्चिरं चिक्रीड तत्र सः॥ १०२२ ॥ अथाऽश्वपतिना वाही यथार्ह भूभुजां पुरः । ढौकितास्तान समारुह्य तेऽपि वेगादवाहयन् ॥ १०२३ ॥ कुमारोऽप्यब्धिकल्ोलाभिधं वरतुरङ्गमम् । आरुह्य मुमुचेऽश्वोऽपि धावन्नुदपतद् नभः ॥१०२४ ॥ क्षणेनादर्शनीभूते तस्मिन् ज्ञात्वाऽश्वसेनराद् । व्याकुलः सपरीवारः पृष्ठतो गन्तुमुद्यतः ।। १०२५ ॥ अत्रान्तरे महेन्द्रेण विज्ञप्तो नृपतिः प्रभो !। स्वामी तिष्ठतु लब्ध्वा तु कुमारमहमागमम् ।। १०२६ ॥ इति भूपं निवाऽसौ कियदलसमन्वितः । वर्षमेकं महाटव्यां गतो बभ्राम सर्वतः ॥ १०२७॥ अथैकदिवसे भ्राम्यनीषीत् सारसध्वनिम् । आघ्रासीत् पद्मगन्धं च ततस्तत्संमुखं ययौ ॥ १०२८ ॥ दृष्टा सरोवरं तत्र शृण्वन् गीतकलध्वनिम् । हर्षोत्फुल्लमुखो यावत् पुरो गन्तुं प्रवृत्तवान् ।। १०२९ ॥ तावद् युवतिमध्यस्थं कुमारं पश्यति स्म सः । १ अश्वाः .४५
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy