________________
३३४
श्रीपार्श्वनाथचरितेअस्त्यत्र भरतेऽवन्त्यां पुरं नाम्ना सुदर्शनम् । राजा मणिरथस्तत्र निवासः सततं श्रियः ।। ७७३ ।। ताता युवराजस्तु युगबाहुमहामनाः । प्रिया मदनरेखाहा तस्य सद्गुणशालिनी ।। ७७४ ॥ यस्या रूपश्रियं दृष्टा समुद्भूतस्मरामिना । दग्धः कामोऽपि तेनाऽसौ पाप नूनमनङ्गताम् ।। ७७५ ।। सती रूपवती साऽपि जैनधर्मे रताऽभवत् । तत्सुवर्णस्य सौरभ्यं सौभाग्योपरि मञ्जरी ।। ७७६ ।। अथ तां काऽपि विश्रब्धां पश्यन् मणिरथो हृदि । ईय॑येव हतो बाणैर्मदनेनेत्यचिन्तयत् ॥ ७८७ ॥ ध्रुवं ग्राह्या मया तावदेषा तस्मात् प्रलोभये । यल्लोभान्तरितः कृत्याकृत्यं न गणयेज्जनः ।। ७७८ ॥ ततोऽसौ पुष्प-ताम्बूल-वस्त्रा-लङ्करणादिकम् । पहिणोति न तस्यास्तु कोऽपि दुष्टाशयो हृदि ॥ ७७९ ॥ ज्येष्ठस्याऽयं प्रसादो मे संकल्प्येत्याददाति तत् । अन्यदा प्रहिता राज्ञा दूती तामित्यवोचत ।। ७८० ॥ भद्रे ! तव गुणग्रामे रक्तो राजा वदत्यदः। मां प्रतिपद्य भर्तारं राज्यस्य स्वामिनी भव ।। ७८१ ॥ ज्ञाताकूता ततो राज्ञी जगादैवं सतां मनः । अन्यास्वपि परस्त्रीषु नैति दूरे वधूजनः ॥ ७८२ ॥ शीलमाद्यगुणः स्त्रीणां यदि सोऽपि न मे भवेत् । ततः केऽन्ये गुणा येषु रज्यते नरपुङ्गवः ? ॥ ७८३ ॥ स्वामित्वं यत् तु राज्यस्य तत् त्वदीयानुजन्मनः । गृहिणीत्वं दधत्या मे युवराजस्य को हरेत् ? ॥ ७८४ ॥ किश्च सत्पुरुषा मृत्युमप्यङ्गीकुर्वतेतराम् । लोकद्वयविरुद्धं तु नाचरन्ति कथश्चन ॥ ७८५ ॥
.