________________
षष्ठः सर्गः ।
३३३
सीमा न लङ्घ्यते यत्र प्रथमं तद् गुणव्रतम् ।। ७५९ ॥ निषिद्धाऽनन्तकायाद्यैः क्रियते यासु कर्मभिः । भोगोपभोगयोः सङ्ख्या तद् द्वितीयं गुणव्रतम् ॥७६०॥ पापोपदेशोऽपध्यानं हिंस्रोपकरणार्पणम् । प्रमादाचरणं चाऽपि त्यज्यतेऽन्त्यगुणत्रते । ७६१ ।। मनो-वाक्-कायसावद्यवर्जितैर्यो विधीयते । मुहूर्त्त समताभावस्तत् स्यात् सामायिकव्रतम् ||७६२| दिग्वते या कृता मार्गसङ्ख्या सा सर्वदा पुनः । दिने रात्रौ च संक्षेप्या व्रते देशावकाशिके ॥ ७६३ ॥ चतुर्थाद्यं चतुष्पव्र्व्यामस्नानं ब्रह्मचारिता । कुव्यापार निषेधश्च यत्र तत् पौषधत्रतम् ॥ ७६४ ॥ भावाच्चतुर्विधाहारो वस्त्रं पात्रमुपाश्रयः । अतिथिभ्यो दीयते यत तुर्ये शिक्षाव्रतं हि तत् ॥ ७६५ ॥ एवं व्रतस्थः सद्भक्त्या सप्तक्षेत्र्यां धनं वपन् । दीनादौ च दयापूर्व महाश्रावकतां व्रजेत् || ७६६ ।। इमैर्निरतिचारैः सत्सम्यक्त्वालङ्कृतैव्रतैः । गृहिधर्मोऽपि मोक्षाय भवेदन्तर्भवाष्टकम् || ७६७ ॥ इत्थं द्विधाऽपि चारित्ररूपं शीलमुदाहृतम् । अधुना लोकविख्यातं ब्रह्मरूपं निगद्यते । ७६८ ।। नारीणां च नराणां चाऽन्यकान्तासक्तिवर्जनम् । गृहिणां शीलमाख्यातं देवानामपि दुर्लभम् ॥ ७६९ ।। विषयव्याकुलैः शीलं खण्डितं मनसाऽपि यैः । ते यान्ति नरकं घोरं यथा मणिरथो नृपः ।। ७७० ।। सती मदनरेखेव पालयत्यमलं तु तत् ।
यः स धन्येषु रेखाप्तो भवेत् सुगतिभाजनम् ॥ ७७१ ॥ एतयोश्चरितं चारु चारित्रप्रतिपत्तये ।
ज्ञानवैचित्र्यतः किञ्चिद् भविष्यदपि कथ्यते ॥ ७७२ ॥