________________
। षष्ठः सर्गः
:
तस्मिन् यथासनाssसीने मुनिः सद्धर्ममादिशत् । पूर्व भाष्यं हि साधूनामिदमेव जनं प्रति || ३२३ ॥ सर्वावस्थास्वपि नरैः सर्वथा हितमिच्छुभिः । जीवरक्षामयः कार्यो धर्मः सर्वज्ञभाषितः ॥ ३२४ ॥
२९९
यतः
धर्मो मोहमहारात्रिव्याकुलानां दिनोदयः । शुष्यतः सौख्यवृक्षस्य धर्म एव घनाघनः ॥ ३२५ ॥ धर्म एव परो बन्धुर्धर्म एवोत्तमः प्रभुः । सहायो धर्म एवैको भवारण्ये शरीरिणाम् ३२६ किश्चान्यत् क्षणिकं कष्टसाध्यं पापकरं परम् । षट्कर्म यत् किञ्चित् शुभं तद् धर्म एव हि ।। ३२७ ॥ तथाहि
भव्यैराराधिता सम्यगाकृष्टिं सुखसम्पदाम् । उच्चाटं विपदां स्तम्भं दुर्गतौ पतदङ्गिनाम् || ३२८ ॥ मोहनं मोहराजस्य विद्विषं पुनरेनसोम् । वश्यतां कुरुते मुक्तेर्ध्रुवं सद्धर्मदेवता ॥ ३२९ ॥
( युग्मम् ) अहो ! नामाऽपि धर्मस्य सिद्धमन्त्र इवानघः । सम्यक् पुनरसौ ज्ञात्वा सेवितः कस्य नेष्टकृत् १ ||३३०॥ सम्यग् धर्मस्तु सर्वज्ञादिष्टो जीवदयामयः । गृहस्थ-यतिभेदेन यथाशक्ति तमाश्रयेः || ३३१ ॥ सकृद् दृष्टोऽपि सौख्याय धर्मः कलिमलावृतः । छन्नोऽभ्रपटलेनेव सूर्यः सूर्यव्रतस्य हि ।। ३३२ ॥ इत्यादिदेशनामन्त्रैर्ध्वस्त मोहमहाविषः ।
सद्धर्मचेतनां प्राप्य विजयो व्रतमग्रहीत् ।। ३३३ ॥ दत्त्वा दीक्षां गुरुर्धर्मशिक्षामेवं प्रदत्तवान् ।
१ मेघः । २ पापानाम् ।