SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २९८ श्रीपार्श्वनाथचरितेययौ स्वनगरं, राज्ञा महा च प्रवेशितः ॥ ३१० ॥ सन्मान्य तं रिपुं पूर्वस्थितावस्थापयन्नृपः । सन्तो गृहागतं दीनं शत्रुमप्यनुगृह्णते ॥ ३११ ॥ चन्द्रसेनं गुणज्येष्ठं मत्वा बुद्धिपराक्रमः । युवराजपदे राजा प्रसन्नः सन् न्ययोजयत् ॥ ३१२ ।। अतोऽत्यन्तपराभूतिलज्जितो विनयो निशि । निर्गत्य चलितो देशान्तरं क्रान्त्वा बहुं महीम् ।। ३१३ ॥ अथैकत्र पुरं शून्यं संप्राप्य तद्धहिर्निशि । श्रमात् सुष्वाप शून्यात्मा प्रातस्तन्मध्यमैक्षत ॥३१४॥ जीर्णदेवकुलं श्रस्तमन्दिरं शीर्णपादपम् । दृष्ट्रा स्वमिव निःश्रीकं तद्विषण्णस्ततोऽचलत् ॥ ३१५ ॥ आस्तामन्येन निस्तेजाः खेनाऽपि परिभूयते । दुर्दर्शस्तु महातेजाः प्रतिबिम्बेऽपि मूर्यवत् ॥ ३१६ ॥ उड्डियाणभुवं प्राप्तः कुमारो विजयः क्रमात् । मुनि कीर्तिधरं तत्राऽनभ्रवृष्टिमिवैक्षत ॥ ३१७ ॥ । तं दृष्ट्वोल्लसितानन्दकन्दलः सहसा हृदि । स दध्यौ यदहो ! निष्ठा काऽप्यस्य भुवनातिगा ॥३१८ ॥ किश्चसन्तः सन्तोऽपि संसारे न मुञ्चन्ति निजां स्थितिम् । स्पष्ट एव समुद्रोऽपि महीरावणवाहकः ॥ ३१९ ॥ तदेनं प्रणिपत्याऽऽत्मशुद्धिं कुर्वे यतः पुमान् । वारिवद् गुरुपादानां स्पर्शनाऽपि शुचिर्भवेत् ॥ ३२० ॥ इति शुद्धधिया साधु कुमारः प्रणनाम तम् । धर्मलाभाशिषं दत्त्वा मुनिनाऽप्येष तोषितः ॥ ३२१ ॥ यतः-- देवस्य दर्शनात् तुष्टिराशीर्वादाद् गुरोः पुनः । प्रभोश्च दानसन्मानात् कस्याऽपि किमपीष्यते ॥ ३२२ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy