SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरिते पञ्चव्रती ससम्यक्त्वां कषाया ऽक्षजयं तथा ।। १५४॥ ततोऽसौ शुद्धभावेन गृहिधर्म प्रपन्नवान् । अचित्ताहार-पश्चेष्टनमस्कारपरोऽभवत् ।। १५५ ॥ : अन्यदाऽसौ गतचैत्ये जिनं नन्वा तथा मुनिम्। . उपविष्टस्ततोऽपृच्छत् पुष्कलिश्रावको मुनिम् ॥ १५६ ॥ स्वामिन्नेवंविधव्याधिशीर्णाङ्गस्य जिनौकसि । आगत्य युज्यते देववन्दनं किमु वा न हि ? ॥ १५७ ॥ यत्यूचे वन्दने देवावग्रहाशातनोज्झनात् । को दोषो यद् मलक्लिनदेहाः स्युर्यतयोऽपि हि ? ॥१५८॥ क गतावेष गन्तेति तेनोक्तः स पुनर्जगौ । बद्धायुभाव्यसौ राजपुरे तिर्यक्षु कुक्कुटः ॥१५९ स कुष्ठी भावि दुःखं तत् श्रुत्वा स्वस्याऽरुदत्तराम् । संबोधितश्च मुनिना यद् मा खिद्यस्व कोविद ! १६० ॥ प्रचण्डपवनोद्धृततरङ्गस्याऽम्बुधेरपि । प्रसरः शक्यते रोडुं न तु प्राक्कृतकर्मणः ।। १६१ ।। बुद्ध्वा दत्तोऽवदन्नाथ ! लप्स्ये बोधिं पुनः कदा ?। मुनिराख्यदितस्तावत् कुक्कुटस्त्वं भविष्यसि ॥ १६२ ।। ततो राजपुरे दृष्ट्रा मुनि जातिस्मृतिं गतः । विहितानशनो मृत्वा नृपस्तत्रैव भाव्यसि ॥ १६३ ॥ राजपाट्यां गतस्तत्र दृष्ट्वा पार्श्वजिनं भवान् । लब्धा बोधिमिति श्रुत्वा दत्तः प्रमुदितोऽभवत् ॥ १६४ ॥ स्मृत्वाऽसौ कुक्कुटो भूत्वा ततोऽभूदीश्वरो नृपः । स चैषोऽहं प्रभुं नत्वा मन्त्रिन् ! जातिस्मृतिं गतः ॥१६५।। ततो नत्वा प्रभोः कायोत्सर्गस्थाने विधाप्य राट् । : चैत्यं तत्र विभोर्बिम्बमुत्सवेन न्यवीविशत् ॥१६६॥: कुक्कुटेश्वर इत्याख्या तस्य चैत्यस्य विस्तृता । । १ मुनिः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy