SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः। २८५ सोऽपि काले करी मृत्वा तीर्थे तत्रैव भक्तिमान् । महर्द्धिय॑न्तरो जातः प्रातिहार्यकरः परः ॥ १४१ ॥ प्रभुः श्रीपार्श्वनाथोऽपि शिवापुर्या ययौ क्रमात् । कौशाम्बाख्ये वने तत्र कायोत्सर्गेण तस्थिवान् ॥ १४२ ॥ स्मृत्वा पूर्वोपकारं च तदागाद् धरणोरगः । महद्धा स्वामिनं नत्वा पुरो नाट्यविधि व्यधात् ॥१४३॥ हहाऽस्यार्ककरस्पर्शो मयि सत्यपि सेवके । ध्यात्वेति स व्यहं भर्तुः शीर्षे छत्रमहिर्दधौ ॥ १४४ ॥ ततोऽन्यत्र गते नाथे स्वस्थानं धरणोऽप्यगात् । तदारभ्य जने सा पूरहिच्छत्रेति कथ्यते ॥ १४५ ॥ अथ राजपुरे स्वामी गत्वा प्रतिमया स्थितः । ईश्वराख्यो नृपस्तत्र राजपाट्यां विनिर्ययौ ॥ १४६ ॥ व्रतस्थं देव ! पश्यैनमश्वसेननृपाङ्गजम् । इत्युक्तो बन्दिना हृष्टो नृपः पार्थान्तिकं ययौ ॥ १४७ ॥ नृपो दृष्ट्वा विभुं कापि दृष्टोऽयमिति चिन्तयन् । मूर्छितो लब्धसंज्ञश्च जातजातिस्मृति गौ ॥ १४८ ।। अहो ! चित्रं यदस्मारि निजप्राच्यभवो मम । मन्त्र्यूचे स विभो ! कीदृग् नृपः प्राह निशम्यताम् ? ॥१४९॥ श्रीवसन्तपुरे जज्ञे दत्तनामा द्विजः पुरा । निमित्तोद्वाहलग्नादिकथनाजनसम्मतः ॥ १५ ॥ अथाऽभूत् कुष्ठरोगोऽस्य विनष्टवपुरित्यसौ। कुटुम्बेनाऽप्यवज्ञातो गङ्गायां मृत्यवे गतः ॥ १५१ ॥ तज्जले निपतन्नेष दृष्टो विद्याधरर्षिणा । उदितश्च महाभाग ! ब्रुडस्येवं जले कथम् ? ॥ १५२ ॥ महारसायनं जैन सर्वरोगहरं कुरु । शाखाच्छेदेन किं कर्ममूलं छिन्द्धि विपत्तरोः ॥ ? १५३ ॥ किं तद् रसायनं तेनेति पृष्टो मुनिराख्यत ? ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy