SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २६६ श्रीपार्श्वनाथचरितेसोऽपि भूयः पुमानूचे राज्येऽभून्नरवर्मणः। मूनुः प्रसेनजिन्नाम कामधेनुसमोऽर्थिनाम् ॥१५५॥ तस्य प्रभावती नाम संपति प्राप्तयौवना । कन्याऽस्ति सुरकन्येव दिवः शापादिहागता ॥१५६॥ तद्वाक्य-मुख-रूपाऽ-क्षिजिता इव ययुध्रुवम् । सुधा पाताल इन्दुः खे दिवि रम्भा जलेऽम्बुजम् ॥१५७।। पाद-पाणि-मुखाऽ-क्षीणि यस्याः स्मेरारऽविन्दवत् । वीक्ष्य लक्ष्मीस्तदीयाङ्गं पद्माकरमिवाऽऽश्रयत् ॥१५८॥ तामेवं वीक्ष्य चिन्तावाननुरूपं वरं भुवि । स नृपोऽन्वेषयामास किन्तु तादृङ् न कोऽप्यभूत् ॥१५९॥ सखीभिः सहिताऽन्येार्गतोद्यानं प्रभावती । किनरीभिर्गीयमानं पद्यगीतमदोऽशृणोत् ॥१६०॥ जयी वाराणसीभर्तुरश्वसेनस्य नन्दनः । श्रीपार्श्वनाथोऽनौपम्या यद्रूपगुणसम्पदः॥१६॥ रामाऽपि जयिनी साऽत्र यामसौ परिणेष्यति । किन्त्वेतावन्ति भाग्यानि कस्याः सन्ति जगत्त्रये ॥१६२॥ इत्थं श्रीपार्श्वनाथस्य शृण्वती गुणकीर्तनम् । तद्रागविवशा जज्ञे तन्मयीव प्रभावती ॥१६३॥ त्यक्त्वाऽथ क्रीडां ब्रीडां च तद्गीतं हरिणीव सा । तल्लीना शृण्वती पार्चरक्ताऽलक्षि सखीजनैः ॥१६४॥ यथा यथाऽसौ तद्गीतामृतं कर्णपुटैः पपौ । तस्यास्तथा तथा तृष्णा तल्लावण्यादवर्धत ॥१६५।। व्यक्तसात्त्विकभावाऽपि हता पुष्पमयैः शरैः । कामेन गतचित्तेव निश्चेष्टा साऽभवचदा ॥१६६।। किन्नोऽथ समुत्पेतुः सा तूत्पश्या चिरं स्थिता । प्रभावती स्मरावेशाच्छून्यीभूतमना भृशम् ।।१६७॥ त्वं सुता राजहंसस्य कुमारः कमलाकरः।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy