________________
पञ्चमः सर्गः। ..
२६५
तस्याऽतिशायिरूपस्य मौलावुष्णीषकैतवात् । स्वकीयसुकृतस्येवाऽऽरोपयत् कलसं विधिः ॥ १४२ ॥ लावण्यजलसंपूर्णे तस्याङ्गसरसि स्थिते । सन्नत्रपत्रे वक्त्राब्जे स्त्रीहरभृङ्गा न केऽपतन् ? ॥ १४३ ।। नव्यो रविरिव श्रीमानारोहन् यौवनं नमः । कतमानां पद्मिनीनां विततान मुदं न सः ? ॥१४४॥ अन्यदा नृपमास्थानस्थितं वेत्रिनिवेदितः।। कश्चिदेत्य नरो नत्त्वा निविश्यैवं व्यजिज्ञपत् ॥१४५।। देव ! जित्वा श्रियाऽनेकपुराणीवार्जितध्वजम् । सत्प्रासादपताकाढ्यं पुरमस्ति कुशस्थलम् ॥१४६ ॥ तत्राऽऽसीनरवाख्यो नृपतिः सुकृतैकधीः । आश्रमाणां गुरुः सत्यः सोऽभूद् धर्मप्रर्वतनात् ॥१४७॥ तेजसा भूभृतः क्रान्त्वा जनानां मस्तके स्थितः । स मध्याह्नाऽवजज्ञे विश्वसाधारणः कृती ॥१४८॥' जिनधर्मरतो नित्यं साधुशुश्रूषणोद्यतः । नीत्या चक्रे चिरं राज्यं परिव्रज्योन्मुखः परम् ॥१४९॥ संवेगाऽतिशयादन्यदिनेऽसौ रेणुवच्छ्रियम् । त्यक्त्वा व्रतमुपादत्त सुसाधुगुरुसन्निधौ ॥१५०॥ इत्यर्धकथिते तेन राजा धार्मिकवत्सलः। शिरो धुन्वन्नुवाचैवं सदस्यानपि मोदयन् ॥१५१।। अहो ! सत्त्वाधिकः कीदृङ् नरवर्मा यदय॑ते । स्वीकृत्य नरकं राज्यं तत्याज तदसौ क्षणात् ॥१५२॥ भवोदामप्रवाहेण वाह्यन्ते सर्वजन्तवः। प्रति स्रोतो गमी कोऽपि कृष्णचित्रकमूलवत् ॥१५३॥ किं वा विवेकसाहाय्याद् दुष्करं किं मनस्विनाम् ? ।
साधु कृत्यं कृतं राज्ञा तदूर्व भद्र ! कथ्यताम् ? ॥१५४॥ १ कामशास्त्रोक्तस्त्रीविशेषाणाम् । २ राज्ञः पक्षे पर्वतान् । ३ सर्वजनसमदृष्टिः ।