SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Teaching Point: णिच् चतुर्थः न्यायालयः पाठः विविद नृत् लिपिकः लेख्यम यथाकालम् उप स्थापय् वैत्तिक तथ्यम प्रायेण otuw अभिवक्ता यक्तिः प्रमाणीक खण्डय अवधानम् सम्यक् प्रति क्षिप् न्यायस्य आलयः एव न्यायालयः भवति । विवदमानौ पक्षौ अनागत्य न्यायमिच्छतः । अत्र एकः न्यायाधीशः वर्तते । एकः च तस्य सहायकः लिपिकः भवति । एष लिपिकः सर्वाणि लेख्यानि अवधानेन रक्षति यथाकालं च तानि न्यायाधीशस्य सम्मुखम् उपस्थापयति। न्यायाधीशः यत् किञ्चित् अपि लेखयितुमिच्छति सः तेन लिपिकेन लेखयति। केचन न्यायालयाः वैत्तिक -विवादेभ्यः एव भवन्ति,अन्ये च दुश्चरित्राणाम् अभियोगेभ्यः भवन्ति । अभियोगेषु द्वौ पक्षौ भवतः । न्यायाधीशः द्वयोः एव पक्षयोः कथनानि आकर्णयति । कदापि राज्यमेव एकतरः पक्षः भवति । न्यायाधीशः सर्वाणि तथ्यानि सम्यक् विचार्य स्वं निर्णयं श्रावयति । 12
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy