SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Teaching Point : शानच तृतीयः अवाञ्छितः उपदेशः पाठः नीडम् : धारासारः 1 वर्ष कम्प्बाध आर्त हन्त वेप क्लिश् उपदेष्ट्रकुपित प्रकोपः पयःपानम् भुजंगः CONU - गंगा-तटे आसीत् कश्चन वृक्षः । तत्र अनेकानि नीडानि आसन् येषु खगाः स्वैः शावकैः सह सुखेन वसन्ति स्म । एष वर्षर्तुः आसीत् । एकस्मिन् दिने धारासारैः अवर्षत् देवः । स्वान् प्राणान् रक्षितुं सर्वे पशवः इतस्ततः अधावन् । केचित्तु किञ्चित् शरणमविन्दन् अन्ये तु बहिः एव कम्पमानाः स्थितवन्तः । शीतं तान् सर्वान् बाधते स्म । परं खगाः अतीव आनन्दिताः आसन् । ते सुखेन स्वेषु नीडेषु कूजन्ति स्म । तदा कश्चित् वानरः तरु-तले आगतवान् । तं शीतातं दृष्ट्वा स्वनीडात् एकः खगोऽवदत्-'हन्त वानर, त्वं शीतेन वेपमानः क्लिश्यमानः च तिष्ठसि । मनुष्यस्य इव ते अपि हस्तौ पादौ च सन्ति । पश्य, वयं निर्बलाः अपि स्वगृहाणि रचयित्वा सुखेन निवसामः' इति ।
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy