________________
૨૦
तपाधिगमसूत्र नाग-४ | अध्याय-८ | सूत्र-१०
भाष्य :
त्रिद्विषोडशनवभेदा यथाक्रमम् । मोहनीयबन्धो द्विविधः - दर्शनमोहनीयाख्यश्चारित्रमोहनीयाख्यश्च । तत्र दर्शनमोहनीयाख्यस्त्रिभेदः । तद्यथा - मिथ्यात्ववेदनीयं, सम्यक्त्ववेदनीयं, सम्यग्मिथ्यात्ववेदनीयमिति । चारित्रमोहनीयाख्यो द्विविधः - कषायवेदनीयं, नोकषायवेदनीयं चेति । तत्र कषायवेदनीयाख्यः षोडशभेदः । तद्यथा - अनन्तानुबन्धी क्रोधो मानो माया लोभः, एवमप्रत्याख्यानकषायः प्रत्याख्यानकषायः संज्वलनकषाय इत्येकशः क्रोधमानमायालोभाः षोडश भेदाः । नोकषायवेदनीयं नवभेदम् । तद्यथा - हास्यं, रतिः, अरतिः, शोकः, भयं, जुगुप्सा, पुरुषवेदः, स्त्रीवेदः, नपुंसकवेद इति नोकषायवेदनीयं नवप्रकारम् । तत्र पुरुषवेदादीनां तृणकाष्ठकरीषाग्नयो निदर्शनानि भवन्तीति । एवं मोहनीयमष्टाविंशतिभेदं भवति ।
अनन्तानुबन्धी सम्यग्दर्शनोपघाती, तस्योदयाद्धि सम्यग्दर्शनं नोत्पद्यते, पूर्वोत्पन्नमपि च प्रतिपतति । अप्रत्याख्यानकषायोदयाद् विरतिर्न भवति । प्रत्याख्यानावरणकषायोदयाद् विरताविरतिभवति, उत्तमचारित्रलाभस्तु न भवति । संज्वलनकषायोदयाद् यथाख्यातचारित्रलाभो न भवति । ___ क्रोधः कोपो रोषो द्वेषो भण्डनं भाम इत्यनर्थान्तरम् । तस्य क्रोधस्य तीव्रमध्यविमध्यमन्दभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा - पर्वतराजिसदृशो भूमिराजिसदृशो वालुकाराजिसदृश उदकराजिसदृश इति ।
तत्र पर्वतराजिसदृशो नाम यथा प्रयोगविस्रसामिश्रकाणामन्यतमेन हेतुना पर्वते राजिरुत्पन्ना नैव कदाचिदपि संरोहति, एवमिष्टवियोजनानिष्टयोजनाभिलषितालाभादीनामन्यतमेन हेतुना यस्योत्पन्नः क्रोधः आ मरणान्न व्यपगच्छति जात्यन्तरानुबन्धी निरनुनयस्तीव्रानुशयोऽप्रत्यवमर्शश्च भवति स पर्वतराजिसदृशः, तादृशं क्रोधमनुमृता नरकेषूपपत्तिं प्राप्नुवन्ति ।
भूमिराजिसदृशो नाम यथा भूमेर्भास्कररश्मिजालादात्तस्नेहाया वाय्वभिहताया राजिरुत्पन्ना वर्षापेक्ष संरोहा परमप्रकृष्टाऽष्टमासस्थितिर्भवति, एवं यथोक्तनिमित्तो यस्य क्रोधोऽनेकवर्षस्थानीयो दुरनुनयो भवति, स भूमिराजिसदृशः, तादृशं क्रोधमनुमृताः तिर्यग्योनावुपपत्तिं प्राप्नुवन्ति ।
वालुकाराजिसदृशो नाम यथा वालुकायां काष्ठशलाकाशर्करादीनामन्यतमेन हेतुना राजिरुत्पन्ना वाय्वीरणाद्यपेक्षसंरोहा अर्वाग् मासस्य संरोहति, एवं यथोक्तनिमित्तोत्पन्नो यस्य क्रोधोऽहोरात्रं पक्षं मासं चातुर्मास्यं संवत्सरं वाऽवतिष्ठते स वालुकाराजिसदृशो नाम तादृशं क्रोधमनुसृता मनुष्येषूपपत्तिं प्राप्नुवन्ति ।