________________
प्रथमाध्यायः
[ ३५
निर्नामः क्षीणनामः शुभाशुभनामकर्मविप्रमुक्तः, क्षीणोच्चगोत्रः क्षीणनीचगोत्रः अगोत्रः निर्गोत्रः क्षीणगोत्रः उच्चनीचगोत्रकर्मविप्रमुक्तः; क्षीणदानान्तरायः क्षीणलाभान्तरायः क्षीणभोगान्तरायः क्षोणोपभोगान्तरायः क्षीणवीर्यान्तरायः अनन्तरायः निरन्तरायः क्षीणान्तरायः अन्तरायकर्मविप्रमुक्तः; सिद्धः बुद्धः मुक्तः परिनिर्वृतः अन्तकृत् सर्वदुःखपहीणः, अथ सः क्षयनिष्पन्नः। अथ सः क्षायिकः ।
अथ किं सः क्षायोपशमिकः? द्विविधः प्रज्ञप्तस्तद्यथा-क्षायोपशमिकश्च क्षायोपशमनिष्पन्नश्च । अथ किं सः क्षयोपशमः ? चतुणी घातिकर्मणां क्षयोपशमः, तद्यथा-ज्ञानावरणीयस्य दर्शनावरणीयस्य मोहनीयस्य अन्तरायस्य क्षयोपशमः, अथसः क्षयोपशमः । अथ किं सः क्षयोपशमनिष्पनः । अनेकविधः प्रजप्तस्तद्यथा -क्षयोपशमिका आभिनिबोधिकज्ञानलब्धिः यावत् क्षयोपशमिका मनःपर्ययज्ञानलब्धिः क्षयोपशमिका मत्यज्ञानलब्धिः क्षयोपशमिका श्रुताज्ञानलब्धिः क्षयोपशमिका विभंगज्ञानलब्धिः क्षयोपशमिका चक्षुदर्शनलब्धिः अचक्षुदर्शनलब्धिः अवधिदर्शनलब्धिः एवं सम्यग्दर्शनलब्धिः मिथ्यादर्शनलब्धिः सम्यमिथ्यादर्शनलब्धिः क्षयोपशमिका सामायिकचारित्रलब्धिः एवं छेदोपस्थापनालब्धिः परिहारविशुद्धिकलब्धिः सूक्ष्मसाम्परायचारित्रलब्धिः एवं चरित्राचरित्रलब्धिः क्षयोपशमिका दानलब्धिः एवं लाभ० भोग० उपभोगलब्धिः क्षयोपशमिका वीर्यलब्धिः एवं पंडितवीर्यलब्धिः बालवीर्यलन्धिः बालपण्डितवीर्यलब्धिः क्षयोपशमिकाश्रोत्रंद्रियलब्धिः यावत् क्षयोपशमिका स्पर्शनेन्द्रियलब्धिः क्षयोपशमिकः आचाराङ्गधरः एवं सूत्रकृतांगधरः स्थानाधरः समवायाधरः व्याख्याप्रज्ञप्तिधरः ज्ञाताधर्मकथाधरः उपासकदशा