________________
२२०
]
तत्त्वार्थसूत्रजैनाऽऽगमसमन्वयः
छाया- ज्ञानावरणीये भगवन ! कर्मणि कति परीषहाः समवतरन्ति ।
गौतम ! द्वौ परीपही समवतरन्तः, तद्यथा-प्रज्ञापरीषहः ज्ञानपरीषहश्च । वेदनीये भगवन् ! कर्मणि कति परीषहाः समवतरन्ति ? गौतम ! एकादश परोषहाः समवतरन्ति, तद्यथापञ्चैव आनुपूर्वी चर्या शय्या बधश्च रोगश्च । तृणस्पर्शः जल्लमेव च एकादश वेदनीये ॥ दर्शनमोहनीये भगवन् ! कर्मणि कति परिषहाः समवतरंति ? गौतम ! एकः दर्शनपरीषहः समवतरति। चारित्रमोहनीये भगवन्! कर्मणि कति परीषहाः समवतरंति ? गौतम ! सप्त परीषहाः समवतरंति, तद्यथाअरतिः अचेलः स्त्री निषद्या याचना च आक्रोशः । सत्कारपुरस्कारः चारित्रमोहे सप्तैते ॥ अन्तराये भगवन् ! कर्मणि कति परीषहाः समवतरंति ? गौतम! एकोऽलाभपरीषहः समवतरति । सप्तविधबंधकस्य भगवन् ! कति परीषहाः प्राप्ताः १ गौतम! द्वाविंशतिपरीसहाः प्रज्ञप्ताः, विशति पुनः वेदयते । यस्मिन् समये शीतपरोषहं वेदयते न तस्मिन् समये उष्णपरीषहं वेदयते, यस्मिन् समये उष्णपरीषहं वेदयते न तस्मिन् समये शीतपरीषहं वेदयते । यस्मिन् समये चर्यापरीषहं वेदयते न तस्मिन् समये निषद्यापरीषहं वेदयते, यस्मिन् समये निषद्यापरीपह वेदयते न तस्मिन् समये चर्यापरीषहं वेदयते । अष्टविधबंधकस्य भगवन् ! कतिपरीषहाः प्रज्ञप्ताः ? गौतम! दाविंशतयः परीषहाः प्रज्ञप्ताः । तद्यथा-क्षुत्परीषहः, पिपासापरीषहः शीतपरीषहः, दंशपरीषहः, मशकपरीषहः, या