________________
१४४ ]
तत्त्वार्थसूत्रजैनाऽऽगमसमन्वय :
छाया- ये केऽपि क्षुद्रकाः प्राणाः, अथवा सन्ति महालयाः।
सदृशं तैः वैरं इति, असदृशं इति वा नो वदेत् ॥ ६॥ एताभ्यां द्वाभ्यां स्थानाभ्यां, व्यवहारो न विद्यते ।
एताभ्यां द्वाभ्यां स्थानाभ्यां, अनाचारं तु जानीयात् ॥ ७॥ भाषा टीका - जो कोई भी छोटे अथवा बड़े जीव हैं उनके मारने का पाप बराबर होता है । बराबर नहीं होता ऐसा न कहे । इन दोनों स्थानों से व्यवहार नहीं होता । और इन्हों दोनों स्थानों से अनाचार का ज्ञान होता है। सादृश्यमसादृश्यं वा वक्तुं युज्यते। न च तद्वशादेव बंधः, अपि त्वध्यवसायवशादपि । ततश्च तोत्राध्यवसायिनोऽल्पकायसत्त्वव्यापादनेऽपि महद्वरं। अकामस्य तु महाकायसत्त्वव्यापादने ऽपि स्वल्पमिति ॥६॥
एतदेव सूत्रेणैव दर्शयितुमाह श्राभ्यामनन्तरोक्ताभ्यां स्थानाभ्यामनयोर्वा स्थानयोरल्पकायमहाकायव्यापादनापादितकर्मबन्धसदृशत्वयोर्व्यवहरणं व्यवहारो नियुक्तिकत्वान युज्यते । तथाहि, न वध्यस्य सदृशत्वमसदृशत्वं चैकमेव । कर्मबन्धस्य कारणं । अपि तु वधकस्य तीव्रभावो मन्दभावो ज्ञातभावोऽज्ञातभावो महावीर्यत्वमल्पवीर्यत्वं चेत्येतदपि । तदेवं वध्यवध्यकयोर्विशेषात्कर्मबन्धविशेष इत्येवं व्यवस्थिते । वध्यमेवाश्रित्य, सदृशत्वासदृशत्वव्यवहारो न विद्यत इति । तथाऽनयोरेव स्थानयोः प्रवृत्तस्यानाचारं, विजानीयादिति । तथाहि, यज्जीवसाम्यात्कर्मबन्धसदृशत्वमुच्यते, तदयुक्त', यतो न हि जीवव्यापत्या हिंसोच्यते, तस्य शाश्वतत्वेन व्यापादयितुमशक्यत्वात । अपि त्विंद्रियादिव्यापत्या तथा चोक्त, पञ्चेद्रियाणि, त्रिविधं बलं च उच्छ्वासनिःश्वासमथान्यदायुः प्राणाःदशेते भगवद्भिरक्ता, स्तेषां वियोजोकरणं तु हिंसा ॥१॥ इत्यादि, अपि च भावसव्यपेक्षस्यैव, कर्मबन्धोऽभ्यपेतु युक्तः, तथाहि, वैद्यस्यागमसव्यपेक्षस्य, सम्यक् क्रियां कुर्वतो, यद्यप्यातुरविपत्तिर्भवति, तथापि, न वैरानुषङ्गो भावदोषाभावाद् । अपरस्य तु सर्पबुद्धया रज्जुमपि घ्नतो भावदोषात्कर्मबन्धः। तद्रहितस्य तु न बन्ध इति । उक्त चागमे, उच्चालयमिपाए । इत्यादि तण्डुलमत्स्याख्यानकं तु सुप्रसिद्धमेव । तदेवंविधवध्यवधकभावापेक्षया स्यात् । सदृशं स्यादसहशत्वमिति । अन्यथाऽनाचार इति ॥७॥
वृत्ति शीलाकाचार्य .त.