SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ नानाशास्त्रसमुत्थयुक्तिनिवहैः प्रज्ञाजुषां संसदि, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ।। __ भक्ष्याभक्ष्यविचारशून्यमनसो धर्मेऽपि नास्थाजुषः, पीयूषोदरसोदरं श्रुतिपुटैर्यस्योपदेशं जनाः । पीत्वानन्दममन्दमाप्य बहवो धर्मे स्थिरा जज्ञिरे, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ।५। __ यो दूरं विषयान् जहाति तनुते धर्मोपदेशं नृणां, सम्यक् पञ्चमहाव्रतानि वहते धत्ते सदा सन्मतिम् । भक्त्या सगुरुसेवनां च कुरुतेऽधीते श्रुतं चाऽनिशं, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ।। अन्तःस्फूर्जदनल्पवारिविभवभ्राजिष्णुपाथोधरनिर्घोषं विफलीकरोति वचसां घोषो महान् यस्य वै । नित्यं तं तपगच्छनाथकमलाचार्यस्य शिष्यं मुनि, भो भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ।७। धीमाँस्तत्पदपद्मयुग्ममधुलिड् वादीभकण्ठीरवो, नानाशास्त्रसमुद्रमन्थनहरिविज्ञानिचूडामाणिः । विख्यातो मुलताननामनगरे मांसाशिनो बोधकः, भो भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम्।।। FE.FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE कृतकर्मविनाशाय वासाय शिवसद्मनः चतुरविजयेनैत-दकृताऽमलमष्टकम् ॥ ९॥"
SR No.022530
Book TitleMat Mimansa
Original Sutra AuthorN/A
AuthorVijaykamalsuri, Labdhivijay
PublisherMahavir Jain Sabha
Publication Year1921
Total Pages236
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy