SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ४२ तत्त्वार्थाधिगमसूत्रम् । [अ०२। सू०१०-१५) ज्ञानोपयोगो ऽष्टविधः। तद्यथा । मतिज्ञानोपयोग: श्रुतज्ञानोपयोगो ऽवधिज्ञानोपयोगी मनःपर्यायज्ञानोपयोगः केवल ज्ञानोपयोगो मत्यज्ञानोपयोगः श्रुताज्ञानोपयोगो विभङ्गज्ञानोपयोग इति । दर्शनोपयोगश्चतुर्भेदः । तद्यथा । चक्षुर्दर्शनोपयोगो ऽचक्षुदर्शनोपयोगो ऽवधिदर्शनोपयोगः केवलदर्शनोपयोग इति ॥ __ संसारिणो मुक्ताश्च ॥ १० ॥ ते जौवाः समासतो द्विविधा भवन्ति संसारिणे मुताश्च । किं चान्यत् । समनकामनस्काः॥ ११ ॥ समासतस्ते एव जौवा द्विविधा भवन्ति समनस्काश्च अमन- 10 स्काश्च । तान्परस्तावक्ष्यामः ॥ संसारिणस्त्रसस्थावराः ॥ १२॥ संसारिणो जौवा द्विविधा भवन्ति त्रसाः स्थावराश्च । तत्र पृथिव्यब्वनस्पतयः स्थावराः॥१३॥ पृथिवीकायिका अपकायिका वनस्पतिकायिका इत्येते 15 त्रिविधाः स्थावरा जौवा भवन्ति । तत्र पृथिवीकायो ऽनेकविधः शुद्धपथिवीशर्करावालुकादिः । अप्कायो ऽनेकविधो हिमादिः। वनस्पतिकायो ऽनेकविधः शैवलादिः ॥ तेजोवायू दौन्द्रियादयश्च वसाः ॥ १४ ॥ * II. 25.
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy