SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् । [अ० १ । सू० ३५।] क बहुषु वा नामादिविशेषितेषु मानतातोतानागतेषु घटेषु संप्रत्ययः१ संग्रहः। तेष्वेव खौकिकपरीक्षकग्राह्येषूपचारगम्येषु यथास्थूलार्थेषु संप्रत्ययो व्यवहारः । तेष्वेव सत्सु मानतेषु संप्रत्यय ऋजुसूत्रः । तेष्वेव मानतेषु नामादौनामन्यतमग्राहिषु प्रसिद्धपूर्वकेषु घटेषु संप्रत्ययः साम्प्रतः शब्दः । तेषामेव साग्र- 5 तानामध्यवसायासंक्रमो वितर्कध्यानवत् समभिरूढः। तेषामेव व्यञ्जनार्थयोरन्योन्यापेक्षार्थवाहित्वमेवम्भूत इति ॥ अत्राह। एवमिदानीमेकस्मिन्नर्थऽध्यवसायनानात्वाचन विप्रतिपत्तिप्रसङ्ग इति । अत्रोच्यते । यथा सर्वमेकं सदविशेषात् सर्वं द्वित्वं जौवाजीवात्मकत्वात् सर्वं त्रित्वं द्रव्यगुण- 10 पर्यायावरोधात् सर्वं चतुष्वं चतुर्दर्शनविषयावरोधात् सर्व पञ्चत्वमस्तिकायावरोधात् सर्वं षट्त्वं षड्यावरोधादिति । यथैता न विप्रतिपत्तयो ऽथ चाध्यवसायस्थानान्तराण्येतानि तदन्वयवादा इति। किं चान्यत् । यथा मतिज्ञानादिभिः पञ्चभिनिर्धर्मादौनामस्तिकायानामन्यतमोऽर्थः पृथक् पृथगु- 15 पलभ्यते पर्यायविशुद्धिविशेषादुत्कर्षण न च ता विप्रतिपत्तयः • C पूर्वेषु। + K साम्प्रतशब्दः । + K शब्देषु। $ H चतुष्क A चतुष्टयं । १ संप्रत्ययः सामान्य घटो घट इति परिज्ञानं ॥ २ % उपचारगम्यविति लोकक्रियाधारेषु ॥ ३ s विरुद्धप्रतीतिविप्रतिपत्तिः ॥
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy