________________
३२
तत्त्वार्थाधिगमसूत्रम्। [अ० १। सू०.३४,३५।]
तस्यैवमविशेषेण लोष्टं सुवर्ण सुवर्ण लोष्टमिति विपरौतमध्यवस्यतो नियतमज्ञानमेव भवति तदन्मिथ्यादर्शनोपहतेन्द्रियमतेर्मतिश्रुतावधयोऽप्यज्ञानं* भवन्ति ॥
उक्र ज्ञान । चारित्रं नवमेऽध्याये वक्ष्यामः । प्रमाणे चोक्ने । नयान्वक्ष्यामः । तद्यथा। 'नैगमसंग्रहव्यवहारर्जुसूत्रशब्दा नयाः ॥ ३४ ॥
नैगमः संग्रहो व्यवहार ऋजुसूत्रः शब्द इत्येते पञ्चनया भवन्ति । तत्र
आद्यशब्दौ दिविभेदौ ॥ ३५ ॥ आद्य इति सूचक्रमप्रामाण्यान्नैगममाह । स दिभेदो देश- 10 परिक्षेपी सर्वपरिक्षेपौ चेति । शब्दस्त्रिभेदः साम्पतः समभिरूढ एवम्भूत इति ॥ अत्राह। किमेषां लक्षणमिति । अत्रोच्यते । निगमेषु येऽभिहिताः शब्दास्तेषामर्थः। शब्दार्थपरिज्ञानं च देशसमग्रग्राही नैगमः । अर्थानां सर्वैकदेशसंग्रहणं संग्रहः । लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः। सतां 15 साम्प्रतानामर्थानामभिधानपरिज्ञानामृजुसूत्रः। यथार्थाभिधानं शब्दः। नामादिषु प्रसिद्धपूर्वाच्छब्दादर्थे प्रत्ययः साम्प्रतः । सत्वर्थध्वसंक्रमः ममभिरूढः । व्यञ्जनार्थयोरेवम्भूत इति ॥
अत्राह । उद्दिष्टा भवता नैगमादयो नयाः । तन्नया इति कः पदार्थ इति। अत्रीच्यते। नयाः प्रापकाः कारकाः 20
* HK प्यज्ञानान्येव ।
+ HK अर्थाः।
Sadds तु।