SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ [अ० १० । सू. ७।] दशमोऽध्यायः । २१६ पञ्चदशसु कर्मभूमिषु जातः सिध्यति* संहरणं प्रति मानुषक्षेत्रे सिध्यति । तत्र प्रमत्तसंयताः संयतासंयतार्दा संहियन्ते । श्रमण्यपगतवेदः परिहार विशुद्धिसंयतः पुलाको ऽप्रमत्तश्चतर्दशपूर्वी श्राहारकशरीरीति न संह्रियन्ते । ऋजुसूत्रनयः 5 शब्दादयश्च त्रयः प्रत्युत्पन्नभावप्रज्ञापनौयाः शेषा नया उभयभावं प्रज्ञापयन्तीति ॥ कालः । अत्रापि नयदयम् । कस्मिन्काले सिध्यतीति । प्रत्युत्पन्नभावप्रज्ञापनौयस्य अकाले सिध्यति । पूर्वभावप्रज्ञाप नौयस्य जन्मतः संहरणतश्च । जन्मतो ऽवमर्पिण्यामुत्मपिण्यामन10 वसर्पिण्यत्मर्पिण्यां च जातः सिध्यति । एवं तावदविशेषतः । विशेषतो ऽप्यवसर्पिण्यां सुषमदुःषमायां मद्ध्येयेषु वर्षेषु शेषेषु जातः सिध्यति दुःषमसुषमायां सर्वस्यां सिध्यति दुःषमसुषमायां जातो दुःषमायां सिध्यति न तु दुःषमायां जातः मिध्यति अन्यत्र नैव सिध्यति। संहरणं प्रति मर्वकालेब्ववमर्पिण्यामुत्सर्पि15 ण्यामनवसर्पिण्युत्मर्पिण्यां च सिध्यति ॥ गतिः । प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धिगत्यां|| सिध्यति । शेषास्तु नया द्विविधा अनन्तरपश्चात्कृतगतिकश्च एकान्तरपश्चात्कृतगतिकश्च । अनन्तरपश्चात्कृतगतिकस्य मनुष्यगत्यां सिध्यति । एकान्तरपश्चात्कृतगतिकस्थाविशेषेण सर्वगतिभ्यः सिध्यति ॥ * C सिध्यतीति। + C omits इति। ॥ B सिद्धगत्याम् । + B प्रमतसंयतसंयतासंयता। . ... SC जाना।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy