________________
२०.
तत्त्वार्थाधिगमसूत्रम् । [अ०६। सू. २०-२२ ।
प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ॥ २०॥
सूत्रक्रमप्रामाण्यादुत्तर मित्यभ्यन्तरमाह* । प्रायश्चित्तं विनयो वैयावृत्यं खाध्यायो व्युत्मो ध्यानमित्येतत्षड्विधमभ्यन्तरं तपः ॥ नवचतुर्दशपञ्चदिभेदं यथाक्रमं प्रारध्यानात् ॥ २१ ॥ ___ तदभ्यन्तरं तपः नवचतुर्दशपञ्च द्विभेदं भवति यथाक्रम प्रारध्यानात् । इत उत्तरं यद्वक्ष्यामः । तद्यथा।
आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपच्छेदपरिहारोपस्थापनानि ॥२२॥
प्रायश्चित्तं नवभेदम् । तद्यथा। आलोचनं प्रतिक्रमणं 10 बालोचनप्रतिक्रमणे विवेकः व्युत्मर्गः तपः छेदः परिहारः उपस्थापनमिति ॥
पालोचनं प्रकटनं? प्रकाशनमाख्यानं प्रादुःकरणमित्यनर्थान्तरम् । प्रतिक्रमण|| मिथ्यादुःकृतसंप्रयुक्तः प्रत्यवमर्श: प्रत्याख्यानं कायोत्सर्गकरणं च। एतदुभयमालोचनप्रतिक्रमणे। विवेको 15 विवेचनं विशोधनं प्रत्युपेक्षणमित्यनर्थान्तरम्** । स एष संमकान
* K omits याह। + D उपस्थानानि। D उपस्थानमिति । $ C विकटं D विवरणं for प्रकटनं ।
|| K परिक्रमणं। IT D •संप्रयुक्तप्रत्यवमर्शः ।
** K प्रत्यवेक्षणम् ) प्रत्युपेक्षेपणं ।